The site is under construction...
विश्वनाथ कविराजस्य साहित्यदर्पणः
प्रथमः परिच्छेदः
ग्रन्थारम्भे निर्विन्घेन प्रारिप्सितपरिसमाप्तिकामो वाङ्भयाधिकृततया वाग्देवतायाः सांमुख्यमाधत्ते--
शरदिन्दुसुन्दररुचिश्चेतसि सा मे गिरं देवी ।
अपहृत्य तमः संततमर्थानखिलान्प्रकाशयतु । । १
अस्य ग्रन्थस्य काव्याङ्गतया काव्यफलैरेव फलवत्त्वमिति काव्यफलान्याह--
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
काव्यादेव यतस्तेन तत्स्वरूपं निरूप्यते । । २
चतुर्वर्गफलप्राप्तिहि कोव्यतो "रामादिवत्प्रवतितव्यं न रावणादिवत्" इत्यादिः कृत्याकृत्यप्रवृत्तिनिवृत्त्युपदेशद्वारेण सुप्रतीतैव ।
उक्तं च (भामहेन)--
"धर्मार्थकाममोक्षेषु वैचक्षण्यं कलासु च ।
करोति कीर्तिं प्रीतिं च साधुकाव्यनिषेवणम्" । ।
इति ।
किञ्च काव्याद्धर्मप्राप्तिर्भगवन्नारायणचरणारविन्दस्तवादिना, "एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः स्वर्गे लोके कामधुग्भवति" इत्यादिवेदवाक्येभ्यश्च सुप्रसिद्धैव ।
अर्थप्राप्तिश्च प्रत्यक्षसिद्धा ।
कामप्राप्तिश्चार्थद्वारैव ।
मोक्षप्राप्तिश्चैतज्जन्यधर्मफलाननुसंधानात्, मोक्षोपयोगिवाक्ये व्युत्पत्त्याधायकत्वाच्च ।
चतुर्वर्गप्राप्तिर्हि वेदशास्त्रेभ्यो नीरसतया दुःखादेव परिणतबुद्धीनामेव जायते ।
परमानन्दसदोहजनकतया सुखादेव सुकुमारबुद्धीनामपि पुनः काव्यादेव ।
ननु तहि परिणतबुद्धिभिः सत्सु वेदशास्त्रेषु किमिति काव्ये यत्नः करणीय इत्यपि न वक्तव्यं ।
कटुकौषधोपशमनीयस्य रोगस्य सितशर्करोपशमनीयत्वे कस्य वा रोगिणः सितशर्कराप्रवृत्तिः साधीयसी न स्यात्? किञ्च काव्यस्योपादेयत्वमग्निपुराणेऽप्युक्तम्--
"नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा ।
कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा" । ।