The site is under construction...
।। यमक काव्यं (घटकर्पट)।।
निचितं खमुपेत्य नीरदाइः
प्रियहीनाहृदयावनीरदैः।
सलिलैर्विहतं रजः क्षितौ
रविचन्द्रावपि नोपलक्षितौ।।१।।
हंसा नदन्मेघभयाद् द्रवन्ति
निशामुखान्यद्य न चन्द्रवन्ति।
नवाम्बुमत्ताः शिखिनो नदन्ति
मेघागमे कुन्दसमानदन्ति।।२।।
मेघावृतं निशि न भाति नभो वितारं
निद्राऽभ्युपैति च हरिं सुखसेवितारम्।
सेन्द्रायुधश्च जलदोऽद्य रसन्निभानां
संरम्भमावहति भूधरसन्निभानाम्।।३।।
सतडिज्जलदार्पितं नगेषु
स्वनदम्भोधरभीतपन्नगेषु।
परिधीररवं जलं दरीषु
प्रपतत्यद्भुतरूपसुन्दरीषु।।४।।
क्षिप्रं प्रसादयति संप्रति कोऽपि तानि
कान्तामुखानि रतिविग्रहकोपितानि।
उत्कण्ठयन्ति पथिकाञ्जलदाः स्वनन्तः
शोकः समुद्भवति तद्वनितास्वनन्तः।।५।।
छादिते दिनकरस्य भावने
खाज्जले पतति शोकभावने।
मन्मथे च हृदि हन्तुमुद्यते
प्रोषितप्रमदयेदमुद्यते।।६।।
सर्वकालमतिलङ्घ्य तोयदा
आगताः स्थ दयितो गतो यदा।
निर्घृणेन परदेशसेवना
मारयिष्यथ न तेन मा विना।।७।।
ब्रूत तं पथिकपांशुलं घना
यूयमेव पथिशीघ्रलङ्घनाः।
अन्यदेशरतिरद्य मुच्यतां
साऽथवा तव वधू किमुच्यतम्।।८।।
हंसः पङ्क्तिरपि नाथ संप्रति
प्रस्थिता वियति मानसम्प्रति।
चातकोऽपि तृषितोम्बु याचते
दुःखिता पथिक सा प्रिया च ते।।९।।
नीलशष्पमतिभाति कोमलं
वारि विन्दति च चातकोऽमलम्।
अम्बुदैः शिखिगणो विनाद्यते
का रतिः प्रिय मया विनाऽद्यते।।१०।।
मेघशब्दमुदिताः कलापिनः
प्रोषिताहृदयशोकलापिनः।
तोयदागमकृशा च साऽद्यते
दुर्धरेण मदनेन साद्यते।।११।।
किं कृपापि तव नास्ति कान्तया
पाण्डुगण्दपतितालकान्तया।
शोकसागरजलेऽद्य पातितां
त्वद्गुणस्मरणमेव पाति ताम्।।१२।।
कुसुमितकुटजेषु काननेषु
प्रियरहितेषु समुत्सुकाननेषु।
द्रवति च कलुषे जले नदीनां
किमिति च मां समवेक्षसे न दीनाम्।।१३।।
मार्गेषु मेघसलिलेन विनाशितेषु
कामो धनुः स्पृशति तेन विना शितेषु।
गम्भीरमेघरसितव्यथिता कदाहं
जह्यां सखिप्रियवियोगजशोकदाहम्।।१४।।
सुसुगन्धितया वनेऽजितानां
स्वनदम्भोधरवातवीजितानाम्।
मदनस्य कृते निकेतकानां
प्रतिभान्तीह वनानि केतकानाम्।।१५।।
तत्साधु यत्त्वां सुतरां ससर्ज
प्रजापतिः कामनिवास सर्ज।
त्वं मञ्जरीभिः प्रवरो वनानां
नेत्रात्सवश्चासि सयौवनानाम्।।१६।।
नवकदम्ब शिरोऽवनतास्मि ते
वसति ते मदनः कुसुमस्मिते।
कुटज किं कुसुमैरुपहस्यते
प्रणिपतामि च दुष्प्रसहस्यते।।१७।।
तरुवर विनतास्मि ते सदाऽहं
हृदयं मे प्रकरोषि किं सदाहम्।
तव कुसुम निरीक्सणेऽप्देऽहं
विसृजेयं सहसैव नीप देहम्।।१८।।
कुसुमैरुपशोभितां सितै-
र्घनमुक्ताम्बुलवप्रहासितैः।
मधुनः समवेक्ष्य कालतां
भ्रमरश्चुम्बति यूथिकालताम्।।१९।।
तासामृतुः सफल एव हि या दिनेषु
सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु।
रत्युत्सवं प्रियतमैः सह मानयन्ति
मेघागमे प्रियसखीश्च समानयन्ति।।२०।।
कोकिलभ्रमरकोककूजिते
मन्मथेन सकले जने जिते।
निर्गतोऽसि शठ मासि माधवे
नोपयासि शयिओऽपि माधवे।।२१।।
एतन्निशम्यविरहानलपीडिताया-
स्तस्या वचः खलु दयालुरपीडिताया।
स स्वारवेण कथितं जलधैरमोघैः
प्रत्याययौ सदनमूनदिनैरमोघैः।।२२।।
भावानुरक्तवनितासुरतैः शपेय-
मालम्ब्य चाम्बु तृशितः करकोशपेयम्।
जोयेय येन कविना यमकैः परेण
तस्मै वहेयमुदकं घटकर्परेण।।२३।।
।। समाप्तमिदं घटकर्परयमक काव्यम्।।