The site is under construction...
आचार्यदण्डिनः काव्यादर्शः
चतुर्मुखमुखाम्भोज- वनहंसवधूर्मम
मनसे रमतां नित्यं सर्वशुक्ला सरस्वती । । १.१ । ।
पूर्वशास्त्राणि संहृत्य प्रयोगानुपलक्ष्य च
यथासामर्थ्यं अस्माभिः क्रियते काव्यलक्षणं । । १.२ । ।
इह शिष्टानुशिष्टानां शिष्टानां अपि सर्वथा
वाचां एव प्रसादेन लोकयात्रा प्रवर्तते । । १.३ । ।
इदं अन्धतमः कृत्स्नं जायेत भुवनत्रयं
यदि शब्दाहवयं ज्योतिरासंसारान्न दीप्यते । । १.४ । ।
आदिराजयशोबिम्बं आदर्शं प्राप्य वाङ्मयं
तेषां असंनिधानेऽपि न स्वयं पश्य नश्यति । । १.५ । ।
गौर्गौः कामदुघा सम्यक्प्रयुक्ता स्मर्यते बुधैः
दुष्प्रयुक्ता पुनार्गोत्वं प्रयोक्तुः सैव शंसति । । १.६ । ।
तदल्पं अपि नोपेक्ष्यं काव्ये दुष्टं कथं चन
स्याद्वपुः सुन्दरं अपि श्वित्रेणैकेन दुर्भगं । । १.७ । ।
गुणदोषानशास्त्रज्ञः कथं विभजते जनः
किं अन्धस्याधिकारोऽस्ति रूपभेदोपलब्धिषु । । १.८ । ।
अतः प्रजानां (व्ल्. पदानां) व्युत्पत्तिं अभिसंधाय सूरयः
वाचां विचित्रमार्गाणां निबबन्धुः क्रियाविधिं । । १.९ । ।
तैः शरीरं च काव्यानां अलंकाराश्च दर्शिताः
शरीरं तावदिष्टार्थव्यवच्छिन्ना पदावली । । १.१० । ।
पद्यं गद्यं च मिश्रं च तत्त्रिधैव व्यवस्थितं
पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्विधा । । १.११ । ।
छन्दोविचित्यां सकलस्तप्रपञ्चो निदर्शितः
सा विद्या नौर्विविक्षूणां गम्भीरं काव्यसागरं । । १.१२ । ।
मुक्तकं कुलकं कोषः संघात इति तादृशः
सर्गबन्धांशरूपत्वादनुक्तः पद्यविस्तरः । । १.१३ । ।
सर्गबन्धो महाकव्यं उच्यते तस्य लक्षणं
आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखं । । १.१४ । ।
इतिहासकथोद्भूतं इतरद्वा सदाश्रयं
चतुर्वर्गफलायत्तं चतुरुदात्तनायकं । । १.१५ । ।
नगरार्णवशैलार्तुचन्द्रार्कोदयवर्णनैः
उद्यानसलिलकृईडामधुपानरतोत्सवैः । । १.१६ । ।
विप्रलम्भैर्विवाहैश्च कुमारोदयवर्णनैः
मन्त्रदूतप्रयाणाजिनायकाभ्युदयैरपि । । १.१७ । ।
अलंकृतं असंक्षिप्तं रसभावनिरन्तरं
सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसंधिभिः । । १.१८ । ।
सर्वत्र भिन्नवृत्तान्तैरुपेतं लोकरञ्जनं
काव्यं कल्पान्तरस्थायि जायते सदलंकृति । । १.१९ । ।
न्यूनं अप्यत्र यैः कैश्चिदङ्गैः काव्यं न दुष्यति
यद्युपात्तेषु संपत्तिराराधयति तद्विधः । । १.२० । ।
गुणतः प्रागुपन्यस्य नायकं तेन विद्विषां
निराकरणं इत्येष मार्गः प्रकृतिसुन्दरः । । १.२१ । ।
वंशवीर्यश्रुतादीनि वर्णयित्वा रिपोरपि
तज्जयान्नायकोत्कर्षकथनं च धिनोति नः । । १.२२ । ।
अपादः पदसंतानो गद्यं आख्यायिका कथा
इति तस्य प्रभेदौ द्वौ तयोराख्यायिका किल । । १.२३ । ।
नायकेनैव वाच्यान्या नायकेनेतरेण वा
स्वगुणाविष्क्रियादोषो नात्रा भूर्तार्थशंसिनः । । १.२४ । ।
अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणाथ्
अन्यो वक्ता स्वयं वेति कीदृग्वा भेदकारणं (व्ल्. लक्षणम्) । । १.२५ । ।
वक्त्रं चापरवक्त्रं च सोच्छ्वासत्वं च भेदकं
चिह्नं आख्यायिकायाश्चेत्प्रसङ्गेन कथास्वपि । । १.२६ । ।
आर्यादिवत्प्रवेशः किं न वक्त्रापरवक्त्रयोः
भेदश्च दृष्टो लम्भादिरुच्छ्वासो वस्तु किं ततः । । १.२७ । ।
तत्कथाख्यायिकेत्युक्ता जातिः संज्ञाद्वयाङ्किता
अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः । । १.२८ । ।
कन्याहरणसंग्रामविप्रलम्भोदयादयः
सर्गबन्धसमा एव नैते वैशेषिका गुणाः । । १.२९ । ।
कविभावकृतं चिह्नं अन्यत्रापि न दुष्यति
मुखं इष्टास्र्थसंसिद्धौ किं हि न स्यात्कृतात्मनां । । १.३० । ।
मिश्राणि नाटकादीनि तेषां अन्यत्र विस्तरः
गद्यपद्यमयी का चिच्चम्पूरित्यभिधीयते । । १.३१ । ।
तदेतद्वाङ्मयं भूयः संस्कृतं प्राकृतं तथा
अपभ्रंशाश्च मिश्रं चेत्याहुरार्याश्चतुर्विधं । । १.३२ । ।
संस्कृतं नाम दैवी वागन्वाख्याता महर्षिभिः
तद्भवस्तत्समो देशीत्यनेकः प्राकृतक्रमः । । १.३३ । ।
महाराष्ट्राश्रयां भाषां प्रकृष्टं प्राकृतं विदुः
सागरः सूक्तिरत्नानां सेतुबन्धादि यन्मयं । । १.३४ । ।
शौरसेनी च गौडी च लाटी चान्या च तादृशी
याति प्राकृतं इत्येवं व्यवहारेषु संनिधिं । । १.३५ । ।
आभीरादिगिरः काव्येष्वपभ्रंश इति स्मृताः
शास्त्रेषु संस्कृतादन्यदपभ्रंशतयोदितं । । १.३६ । ।
संस्कृतं सर्गबन्धादि प्राकृतं स्कन्धकादि यथ्
ओसरादिरपभ्रंशो नाटकादि तु मिश्रकं । । १.३७ । ।
कथा हि सर्वभाषाभिः संस्कृतेन च बध्यते
भूतभाषामयीं प्राहुरद्भुतार्थां बृहत्कथां । । १.३८ । ।
लास्यच्छलितशम्पादि प्रेक्षार्थं इतरत्पुनः
श्रव्यं एवेति सैषापि द्वयी गतिरुदाहृता । । १.३९ । ।
अस्त्यनेको गिरां मार्गः सूक्ष्मभेदः परस्परं
तत्र वैदर्भगौडीयौ वर्ण्येते प्रस्फुटान्तरौ । । १.४० । ।
श्लेषः प्रसादः समता माधुर्यं सुकुमारता
अर्थव्यक्तिरुदारत्वं ओजःकान्तिसमाधयः । । १.४१ । ।
इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः
एषां विपर्ययः प्रायो दृश्यते गौडवर्त्मनि । । १.४२ । ।
श्लिष्टं अस्पृष्टशैथिल्यं अल्पप्राणाक्षरोत्तरं
शिथिलं मालतीमाला लोलालिकलिला यथा । । १.४३ । ।
अनुप्रासधिया गौडैस्तदिष्टं बन्धगौरवाथ्
वैदर्भमालतीदाम लङ्घितं भ्रमरैरिति । । १.४४ । ।
प्रसादवत्प्रसिद्धार्थं इन्दोरिन्दीवरद्युति
लक्ष्म लक्ष्मीं तनोतीति प्रतीतिसुभगं वचः । । १.४५ । ।
व्युत्पन्नं इति गौडीयैर्नातिरूढं अपीष्यते
यथानत्यर्जुनाब्जन्मसदृक्षाङ्को वलक्षगुः । । १.४६ । ।
समं बन्धेष्वविषमं ते मृदुस्फुटमध्यमाः
बन्धा मृदुस्फुटोन्मिश्रवर्णविन्यासयोनयः । । १.४७ । ।
कोकिलालापवाचालो ममैति मलयानिलः
उच्छलच्छीकराच्छाच्छनिर्झराम्भःकणोक्षितः । । १.४८ । ।
चन्दनप्रणयोद्गन्धिर्मन्दो मलयमारुतः
स्पर्धते रुद्धमद्धैर्यो वररामामुखानिलैः । । १.४९ । ।
इत्यनालोच्य वैषम्यं अर्थालंकारडमबरौ
अवेक्षमाणा ववृधे पौरस्त्या काव्यपद्धतिः । । १.५० । ।
मधुरं रसवद्वाचि वस्तुन्यपि रसस्थितिः
येन माद्यन्ति धीमन्तो मधुनेव मधुव्रताः । । १.५१ । ।
यया कया चिच्छ्रुत्या यत्समानं अनुभूयते
तद्रूपा हि पदासत्तिः सानुप्रासा रसावहा । । १.५२ । ।
एष राजा यदा लक्ष्मीं प्राप्तवान्ब्राह्मणप्रियः
तदा प्रभृति धर्मस्य लोकेऽस्मिन्नुत्सवोऽभवथ् । । १.५३ । ।
इतीदं नादृतं गौडैरनुप्रासस्तु तत्प्रियः
अनुप्रासादपि प्रायो वैदर्भैरिदं ईप्सितं । । १.५४ । ।
वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च
पूर्वानुभवसंस्कारबोधिनी यद्यदूरता । । १.५५ । ।
चन्द्रे शरन्निशोत्तंसे कुन्दस्तबकविभ्रमे
इन्द्रनीलनिभं लक्ष्म संदधात्यलिनः श्रियं । । १.५६ । ।
चारु चान्द्रमसं भीरु बिम्बं पश्यैतदम्बरे
मन्मनो मन्मथाक्रान्तं निर्दयं हन्तुं उद्यतं । । १.५७ । ।
इत्यनुप्रासं इच्छन्ति नातिदूरान्तरश्रुतिं
न तु रामामुखाम्भोजसदृशश्चन्द्रमा इति । । १.५८ । ।
स्मरः खरः खलः कान्तः कायः कोपश्च नः कृशः
च्युतो मानोधिको रागो मोहो जातोसवो गताः । । १.५९ । ।
इत्यादि बन्धपारुष्यं शैथिल्यं च नियच्छति
अतो नैवं अनुप्रासं दाक्षिणात्याः प्रयुञ्जते । । १.६० । ।
आवृत्तिं वर्णसंघातगोचरां यमकं विदुः
तत्तु नैकान्तमधुरमतः पश्चाद्विधास्यते । । १.६१ । ।
कामं सर्वोऽप्यलंकारो रसं अर्थे निषिञ्चति
तथाप्यग्राम्यतैवैनं भारं वहति भूयसा । । १.६२ । ।
कन्ये कामयमानं मां न त्वं कामयसे कथं
इति ग्राम्योऽयं अर्थात्मा वैरस्याय प्रकल्पते । । १.६३ । ।
कामं कन्दर्पचाण्डालो मयि वामाक्षि निर्दयः
त्वयि निर्मत्सरो दिष्ट्येत्यग्रामोऽर्थो रसावहः । । १.६४ । ।
शब्देऽपि ग्राम्यतास्त्येव सा सभ्येतरकीर्तनाथ्
यथा यकारादिपदं रत्युत्सवनिरूपणे । । १.६५ । ।
पदसंधानवृत्त्या वा वाक्यार्थत्वेन वा पुनः
दुष्प्रतीतिकरं ग्राम्यं यथा या भवतः प्रिया । । १.६६ । ।
खरं प्रहत्य विश्रान्तः पुरुषो वीर्यवानिति
एवमादि न शंसन्ति मार्गयोरुभयोरपि । । १.६७ । ।
भगिनीभगवत्यादि सर्वत्रैवानुमन्यते
विभक्तं इति माधुर्यं उच्यते सुकुमारता । । १.६८ । ।
अनिष्ठुराक्षरप्रायं सुकुमारं इहेष्यते
बन्धशैथिल्यदोषोऽपि दर्शितः सर्वक्ॐअले । । १.६९ । ।
मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः
कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि । । १.७० । ।
इत्यनूर्जित एवार्थो नालंकारोऽपि तादृशः
सुकुमारतयैवैतदारोहति सतां मनः । । १.७१ । ।
दीप्तं इत्यपरैर्भूम्ना कृच्छ्रोद्यं अपि बध्यते
न्यक्षेण क्षपितः पक्षः क्षत्रियाणां क्षणादिति । । १.७२ । ।
अर्थव्यक्तिरनेयत्वं अर्थस्य हरिणोद्धृता
भूः खुरक्षुण्णनागासृग्लोहितादुदधेरिति । । १.७३ । ।
मही महावराहेण लोहितादुद्धृतोदधेः
इतीयत्येव निर्दिष्टे नेयत्वं उरगासृजः । । १.७४ । ।
नेदृशं बहु मन्यत्ने मार्गयोरुभयोरपि
न हि प्रतीतिः सुभगा शब्दन्यायविलङ्घिनी । । १.७५ । ।
उत्कर्षवान्गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते
तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः । । १.७६ । ।
अर्थिणां कृपणा दृष्टिस्त्वन्मुखे पतिता सकृथ्
तदवस्था पुनर्देव नान्यस्य मुखं ईक्षते । । १.७७ । ।
इति त्यागस्य वाक्येऽस्मिन्नुत्कर्षः साधु लक्ष्यते
अनेनैव पथान्यच्च समानन्यायं ऊह्यतां । । १.७८ । ।
श्लाघ्यैर्विशेषणैर्युक्तं उदारं कैश्चिदिष्यते
यथा लीलाम्बुजक्रीडासरोहेमाङ्गदादयः । । १.७९ । ।
ओजः समासभूयस्त्वं एतद्गद्यस्य जीवितं
पद्येऽप्यदक्षिणात्यानां इदं एकं परायणं । । १.८० । ।
तद्गुरूणां लघूनां च बाहुल्याल्पत्वमिश्रणैः
उच्चावचप्रकारं तद्दृश्यं आख्यायिकादिषु । । १.८१ । ।
अस्तमस्तकपर्यस्तसमस्तार्कांशुसंस्तरा
पीनस्तनस्थितातांरकम्रवस्त्रेव वारुणी । । १.८२ । ।
इति पद्येऽपि पौरस्त्या बध्नन्त्योजस्विनीगिरः
अन्ये त्वनाकुलं हृद्यं इच्छन्त्योजो गिरां यथा । । १.८३ । ।
पयोधरतटोत्सङ्गलग्नसंध्यातपांशुका
कस्य कामातुरं चेतो वारुणी न करिष्यति । । १.८४ । ।
कान्तं सर्वजगत्कान्तं लौकिकार्थानतिक्रमाथ्
तच्च वार्ताभिधानेषु वर्णनास्वपि दृश्यते । । १.८५ । ।
गृहाणि नाम तान्येव तपोराशिर्भवादृशः
संभावयति यान्येव पावनैः पादपांसुभिः । । १.८६ । ।
अनयोरनवद्याङ्गि स्तनयोर्जृम्भमाणयोः
अवकाशो न पर्याप्तस्तव बाहुलतान्तरे । । १.८७ । ।
इति सम्भाव्यं एवैतद्विशेषाख्यानसंस्कृतं
कान्तं भवति सर्वस्य लोकयात्रानुवर्तिनः । । १.८८ । ।
लोकातीत इवात्यर्थं अध्यारोप्य विवक्षितः
योऽर्थस्तेनातितुष्यन्ति विदग्धा नेतरे जनाः । । १.८९ । ।
देवाधिष्ण्यं इवाराध्यं अद्यप्रभृति नो गृहं
युष्मत्पादरजःपातधौतनिःशेषकिल्बिषं । । १.९० । ।
अल्पं निर्मितं आकाशं अनालोच्यैव वेधसा
इदं एवंविधिं भावि भवत्याः स्तनजृम्भणं । । १.९१ । ।
इदं अत्युक्तिरित्युक्तं एतद्गौडोपलालितं
प्रस्थानं प्राक्प्रणीतं तु सारं अन्यस्य वर्त्मनः । । १.९२ । ।
अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना
सम्यगाधीयते यत्र स समाधिः स्मृतो यथा । । १.९३ । ।
कुमुदानि निमीलन्ति कमलान्युन्मिषन्ति च
इति नेत्रक्रियाध्यासाल्लब्धा तद्वाचिनी श्रुतिः । । १.९४ । ।
निष्टःयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयं
अतिसुन्दरं अन्यत्र ग्राम्यकक्षां विगाहते । । १.९५ । ।
पद्मान्यर्कांशुनिष्ठ्यूताः पीत्वा पावकविप्रुषः
भूयो वमन्तीव मुखैर् उद्गीर्णारुणरेणुभिः । । १.९६ । ।
इति हृदमहृद्यं तु निष्ठीवति वधूरिति
युगपन्नैकधर्माणां अध्यासश्च स्मृतो यथा । । १.९७ । ।
गुरुगर्भभरक्लान्ताः स्तनन्त्यो मेघपङ्क्तयः
अचलाधित्यकोत्सङ्गं इमाः समधिशेरते । । १.९८ । ।
उत्सङ्गशयनं सख्याः स्तननं गौरवं क्लमः
इतीमे गर्भिणीधर्मा बहवोऽप्यत्र दर्शिताः । । १.९९ । ।
तदेतत्काव्यसर्वस्वं समाधिर्नाम यो गुणः
कविसार्थः समग्रोऽपि तं एनं अनुगच्छति । । १.१०० । ।
इति मार्गद्वयं भिन्नं तत्स्वरूपनिरूपणाथ्
तद्भेदास्तु न शक्यन्ते वक्तुं प्रतिकविस्थिताः । । १.१०१ । ।
इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महथ्
तथापि न तदाख्यातुं सरस्वत्यापि शक्यते । । १.१०२ । ।
नैसर्गिकी च प्रतिभा श्रुतं च बहुनिर्मलं
अमन्दश्चाभियोगोऽस्याः कारणं काव्यसंपदः । । १.१०३ । ।
न विद्यते यद्यपि पूर्ववासनागुणानुबन्धि प्रतिभानं अद्भुतं
श्रुतेन यत्नेन च वागुपासिता ध्रुवं करोत्येव कं अप्यनुग्रहं । । १.१०४ । ।
तदस्ततन्द्रैरनिशं सरस्वती श्रमादुपास्या खलु कीर्तिं ईप्सुभिः
कृशे कवित्वेऽपि जनाः कृतश्रमा विदग्धगोष्ठीषु विहर्तुं ईशते । । १.१०५ । ।
इत्याचार्यदण्डिनः कृतौ काव्यादर्शे मार्गविभागो नाम प्रथमः परिच्छेदः
काव्यशोभाकारान्धर्मानलंकारान्प्रचक्षते
ते चाद्यापि विकल्प्यन्ते कस्तान्कार्त्स्न्येन वक्ष्यति । । २.१ । ।
किं तु बीजं विकल्पानां पूर्वाचार्यैः प्रदर्शितं
तदेव परिसंस्कर्तुं अयं अस्मत्परिश्रमः । । २.२ । ।
काश्चिन्मार्गविभागार्थं उक्ताः प्रागप्यलंक्रियाः
साधारणं अलंकारजातं अन्यत्प्रदर्श्यते । । २.३ । ।
स्वभावाख्यानं उपमा रूपकं दीपकावृत्ती
आक्षेपोऽर्थान्तन्यासो व्यतिरेको विभावना । । २.४ । ।
समासातिशयोत्प्रेक्षा हेतुः सूक्ष्मो लवः क्रमः
प्रेयो रसवदूर्जस्वि पर्यायोक्तं समाहितं । । २.५ । ।
उदात्तापह्नुतिश्लेषविशेषास्तुल्ययोगिता
विरोधाप्रस्तुतस्तोत्रे व्याजस्तुतिनिदर्शने । । २.६ । ।
सहोक्तिः परिवृत्त्याशीः संकीर्णं अथ भाविकं
इति वाचां अलंकारा दर्शिताः पूर्वसूरिभिः । । २.७ । ।
नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती
स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा । । २.८ । ।
तुण्डैराताम्रकुटिलैः पक्षैर्हरितक्ॐअलैः
त्रिवर्णराजिभिः कण्ठैरेते मञ्जुगिरः शुकाः । । २.९ । ।
कलक्वणितगर्भेण कण्ठेनाघूर्णितेक्षणः
पारावतः परिभ्रम्य रिरंसुश्चुम्बति प्रियां । । २.१० । ।
बध्नन्नङ्गेषु र्ॐआञ्चं कुर्वन्मनसि निर्वृतिं
नेत्रे चामीलयन्नेष प्रियास्पर्शः प्रवर्तते । । २.११ । ।
कण्ठेकालः करस्थेन कपालेनेन्दुशेखरः
जटाभिः स्निग्धताम्राभिराविरासीद्वृषध्वजः । । २.१२ । ।
जातिक्रियागुणद्रव्यस्वभावाख्यानं ईदृशं
शास्त्रेष्वस्यैव साम्राज्यं काव्येष्वप्येतदीप्सितं । । २.१३ । ।
यथाकथंचिथ्सादृश्यं यत्रोद्भूतं प्रतीयते
उपमा नाम तस्याः प्रपञ्चोदयं प्रदर्श्यते । । २.१४ । ।
अम्भोरुहं इवाताम्रं मुग्धे करतलं तव
इति धर्मोपमा साक्षात्तुल्यधर्मप्रदर्शनाथ् । । २.१५ । ।
राजीवं इव ते वक्त्रं नेत्रे नीलोत्पले इव
इयं प्रतीयमानैकधर्मा वस्तूपमैव सा । । २.१६ । ।
त्वदाननं इवोन्निद्रं अरविन्दं अभूदिति
सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते । । २.१७ । ।
तवाननं इवाम्भोजं अम्भोजं इव ते मुखं
इत्यन्योन्योपमा सेयं अन्योन्योत्कर्षशंसिनी । । २.१८ । ।
त्वन्मुखं कमलेनैव तुल्यं नान्येन केन चिथ्
इत्यन्यसाम्यव्यावृत्तेरियं सा नियमोपमा । । २.१९ । ।
पद्मं तावत्तवान्वेति मुखं अन्यच्च तादृशं
अस्ति चेदस्तु तत्कारीत्यसावनियमोपमा । । २.२० । ।
समुच्चयोपमाप्यस्ति न कान्त्यैव मुखं तव
ह्लादनाख्येन चान्वेति कर्मणेन्दुं इतीदृशी । । २.२१ । ।
त्वय्येव त्वन्मुखं दृष्टं दृश्यते दिवि चन्द्रमाः
इयत्येव भिदा नान्येत्यसावतिशयोपमा । । २.२२ । ।
मय्येवास्या मुकह्श्रीरित्यलं इन्दोर्विकत्थनैः
पद्मेऽपि सा यदस्त्येवेत्यसावुत्प्रेक्षितोपमा । । २.२३ । ।
यदि किं चिद्भवेत्पद्मं सुभ्रु विभ्रान्तलोचनं
तत्ते मुखश्रियं धत्तां इत्यसावद्भुतोपमा । । २.२४ । ।
शशीत्युत्प्रेक्ष्य तन्वङ्गि त्वन्मुखं त्वन्मुखाशया
इन्दुं अप्यनुधावामीत्येषा मोहोपमा स्मृता । । २.२५ । ।
किं पद्मं अन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखं
मम दोलायते चित्तं इतीयं संशयोपमा । । २.२६ । ।
न पद्मस्येन्दुनिग्राह्यस्येन्दुलज्जाकरी द्युतिः
अतस्त्वन्मुखं एवेदं इत्यसौ निर्णयोपमा । । २.२७ । ।
शिशिरांशुप्रत्स्पर्धि श्रीमत्सुरभिगन्धि च
अम्भोजं इव ते वक्त्रं इति श्लेषोपमा स्मृता । । २.२८ । ।
सरूपशब्दवाच्यत्वात्सा समानोपमा यथा
बालेवोद्यानमालेयं सालकाननशोभिनी । । २.२९ । ।
पद्मं बहुरजश्चन्द्रः क्षयी ताभ्यां तवाननं
समानं अपि सोत्सेकं इति निन्दोपमा स्मृता । । २.३० । ।
ब्रह्मणोऽप्युद्भवः पद्मश्चन्द्रः शंभुशिरोधृतः
तौ तुल्यौ त्वन्मुखेनेति सा प्रशंसोपमोच्यते । । २.३१ । ।
चन्द्रेण त्वन्मुखं तुल्यं इत्याचिख्यासु मे मनः
स गुणो वास्तु दोषो वेत्याचिख्यासोपमां विदुः । । २.३२ । ।
शतपत्रं शरच्चन्द्रस्त्वदाननं इति त्रयं
परस्परविरोधीति सा विरोधोपमा मता । । २.३३ । ।
न जातु शक्तिरिन्दोस्ते मुखेन प्रतिगर्जितुं
कलङ्किनो जडस्येति प्रतिषेधोपमैव सा । । २.३४ । ।
मृगेक्षणाङ्कं ते वक्त्रं मृगेणैवाङ्कितः शशी
तथापि सम एवासौ नोत्कर्षीति चटूपमा । । २.३५ । ।
न पद्मं मुखं एवेदं न भृङ्गौ चक्षुषी इमे
इति विस्पष्टसादृश्यात्तत्त्वाख्यानोपमैव सा । । २.३६ । ।
चन्द्रारविन्दयोः कान्तिं अतिक्रम्य मुखं तव
आत्मनैवाभवत्तुल्यं इत्यसाधारणोपमा । । २.३७ । ।
सर्वपद्मप्रभासारः समाहृत इव क्वचिथ्
त्वदाननं विभातीति तां अभूतोपमां विदुः । । २.३८ । ।
चन्द्रबिम्बादिव विषं चन्दनादिव पावकः
परुषा वागितो वक्त्रादित्यसंभावितोपमा । । २.३९ । ।
चन्दनोदकचन्द्रांशुचन्द्रकान्तादिशीतलः
स्पर्शस्तवेत्यतिशयं बोधयन्ति बहूपमा । । २.४० । ।
चन्द्रबिम्बादिवोत्कीर्णं पद्मगर्भादिवोद्धृतं
तव तन्वङ्गि वदनं इत्यसौ विक्रियोपमा । । २.४१ । ।
पूष्ण्यातप इवाह्णीव पूषा व्य्ॐनीव वासरः
विक्रमस्त्वय्यधाल्लक्ष्मीं इति मालोपमा मता । । २.४२ । ।
वाक्यर्थेनैव वाक्यार्थः कोऽपि यद्युपमीयते
एकानेकेवशब्दत्वात्सा वाक्यार्थोपमा द्विधा । । २.४३ । ।
त्वदाननं अधीराक्षं आविर्दशनदीधितिः
भ्रमद्भृङ्गं इवालक्ष्यकेसरं भाति पङ्कजं । । २.४४ । ।
नलिन्या इव तन्वङ्ग्यास्तस्याः पद्मं इवाननं
मया मधुव्रतेनेव पायं पायं अरम्यत । । २.४५ । ।
वस्तु किंचिदुपन्यस्य न्यसनात्तत्सधर्मणः
साम्यप्रतीतिरस्तीति प्रतिवस्तूपमा यथा । । २.४६ । ।
नैकोऽपि त्वादृशोऽद्यापि जायमानेषु राजसु
ननु द्वितीयो नास्त्येव पारिजातस्य पादपः । । २.४७ । ।
अधिकेन समीकृत्य हीनं एकक्रियाविधौ
यद्ब्रुवन्ति स्मृता सेयं तुल्ययोगोपमा यथा । । २.४८ । ।
दिवो जगर्ति रक्षायै पुल्ॐआरिर्भुवो भवान्
असुरास्तेन हन्यन्ते सावलेपास्त्वया नृपाः । । २.४९ । ।
कान्त्या चन्द्रमसं धाम्ना सूर्यं धैर्येण चार्णवं
राजन्ननुकरोषीति सैषा हेतूपमा मता । । २.५० । ।
न लिङ्गवचने भिन्ने न हीनाधिकतापि वा
उपमादूषणायालं यत्रोद्वेगो न धीमतां । । २.५१ । ।
स्त्रीव गच्छति षण्ढोऽयं वक्त्येषा स्त्री पुमानिव
प्राणा इव प्रियोऽयं मे विद्या धनं इवार्जिता । । २.५२ । ।
भवानिव महीपाल देवराजो विराजते
अलं अंशुमतः कक्षां आरोढुं तेजसा नृपह् । । २.५३ । ।
इत्येवमादौ सौभाग्यं न जहात्येव जातु चिथ्
अस्त्येव क्व चिदुद्वेगः प्रयोगे वाग्विदां यथा । । २.५४ । ।
हंसीव धवलश्चन्द्रः सरांसीवामलं नभः
भर्तृभक्तो भटः श्वेव खद्योतो भाति भानुवथ् । । २.५५ । ।
ईदृशं वर्ज्यते सद्भिः कारणं तत्र चिन्त्यतां
गुणदोषविचाराय स्वयं एव मनीषिभिः । । २.५६ । ।
इववद्वायथाशब्दाः समाननिभसंनिभाः
तुल्यसंकाशनीकाशप्रकाशप्रतिरूपकाः । । २.५७ । ।
प्रतिपक्षप्रतिद्वन्द्विप्रत्यनीकविरोधिनः
सदृक्सदृशसंवादिसजातीयानुवादिनः । । २.५८ । ।
प्रतिबिम्बप्रतिच्छन्दसरूपसमसंमिताः
सलक्षणसदृक्षाभसपक्षोपमितोपमाः । । २.५९ । ।
कल्पदेशीयदेश्यादिः प्रख्यप्रतिनिधी अपि
सवर्णतुलितौ शब्दौ ये चान्यूनार्थवादिनः । । २.६० । ।
समासश्च बहुव्रीहिः शशाङ्कवदनादिषु
स्पर्धते जयति द्वेष्टि द्रुह्यति प्रतिगर्जति । । २.६१ । ।
आक्रोशत्यवजानाति कदर्थयति निन्दति
विडम्बयति संधत्ते हसतीर्ष्यत्यसूयति । । २.६२ । ।
तस्य मुष्णाति सौभाग्यं तस्य कान्तिं विलुम्पति
तेन सार्धं विगृह्णाति तुलां तेनाधिरोहति । । २.६३ । ।
तत्पदव्यां पदं धत्ते तस्य कक्षां विगाहते
तं अन्वेत्यनुबध्नाति तच्छीलं तन्निषेधति । । २.६४ । ।
तस्य चानुकरोतीति शब्दाः सादृश्यसूचकाः
उपमायां इमे प्रोक्ताः कवीनां बुद्धिसौख्यदाः । ।इत्युपमाचक्रम् । । । । २.६५ । ।
उपमैव तिरोभूतभेदा रूपकं उच्यते
यथा बाहुलता पाणिपद्मं चरणपल्लवः । । २.६६ । ।
अङ्गुल्यः पल्लवान्यासन्कुसुमानि नखार्चिषः
बाहू लते वसन्तश्रीस्त्वं नः प्रत्यक्षचारिणी । । २.६७ । ।
इत्येतदसमस्ताख्यं समस्तं पूर्वरूपकं
स्मितं मुखेन्दोर्ज्योत्स्नेति समस्तव्यस्तरूपकं । । २.६८ । ।
ताम्राङ्गुलिदलश्रेणि नखदीधितिकेसरं
ध्रियते मूर्ध्नि भूपालैर्भवच्चरणपङ्कजं । । २.६९ । ।
अङ्गुल्यादौ दलादित्वं पादे चारोप्य पद्मतां
तद्योग्यस्थानविन्यासादेतत्सकलरूपकं । । २.७० । ।
अकस्मादेव ते चण्डि स्फुरिताधरपल्लवं
मुखं मुक्तारुचो धत्ते धर्माम्भःकणमञ्जरीः । । २.७१ । ।
मञ्जरीकृत्यधर्माम्भः पल्लवीकृत्य चाधरं
नान्यथा कृतं अत्रास्यं अतोऽवयवरूपकं । । २.७२ । ।
वल्गितभ्रु गलद्धर्मजलं आलोहितेक्षणं
विवृणोति मदावस्थां इदं वदनपङ्कजं । । २.७३ । ।
अविकृत्य मुखाङ्गानि मुखं एवारविन्दतां
आसीद्गमितं अत्रेदं अतोऽवयविरूपकं । । २.७४ । ।
मदपाटलगण्डेन रक्तनेत्रोत्पलेन ते
मुखेन मुग्धः सोऽप्येष जनो रागमयः क्र्तः । । २.७५ । ।
एकाङ्गरूपकं चैतदेवं द्विप्रभृतीन्यपि
अङ्गानि रूपयन्त्यत्र योगायोगौ भिदाकरौ । । २.७६ । ।
स्मितपुष्पोज्ज्वलं लोलनेत्रभृङ्गं इदं मुखं
इति पुष्पद्विरेफाणां संगत्या युक्तरूपकं । । २.७७ । ।
इदं आर्द्रस्मितज्योत्स्नं स्निग्धनेत्रोत्पलं मुखं
इति ज्योत्स्नोत्पलायोगादयुक्तं नाम रूपकं । । २.७८ । ।
रूपणादङ्गिनोऽङ्गानां रूपणारूपणाश्रयाथ्
रूपकं विषमं नाम ललितं जायते यथा । । २.७९ । ।
मदरक्तकपोलेन मन्मथस्त्वन्मुखेन्दुना
नर्तितभ्रूलतेनालं मर्दितुं भुवनत्रयं । । २.८० । ।
हरिपादः शिरोलग्नजह्नुकन्याजलांशुकः
जयत्यसुरनिःशङ्कसुरानन्दोत्सवध्वजः । । २.८१ । ।
विशेषणसमग्रस्य रूपं केतोर्यदीदृशं
पादे तदर्पणादेतत्सविशेषणरूपकं । । २.८२ । ।
न मीलयति पद्मानि न नभोऽप्यवगाहते
त्वन्मुखेन्दुर्ममासूनां हरणायैव कल्पते । । २.८३ । ।
अक्रिया चन्द्रकार्याणां अन्यकार्यस्य च क्रिया
अत्र संदर्श्यते यस्माद्विरुद्धं नाम रूपकं । । २.८४ । ।
गाम्भीर्येण समुद्रोऽसि गौरवेणासि पर्वतः
कामदत्वाच्च लोकानां असि त्वं कल्पपादपः । । २.८५ । ।
गाम्भीर्यप्रमुखैरत्र हेतुभिः सागरो गिरिः
कल्पद्रुमश्च क्रियते तदिदं हेतुरूपकं । । २.८६ । ।
राजहंसोपभोगार्हं भ्रमरप्रार्थ्यसौरभं
सखि वक्त्राम्बुजं इदं तवेति श्लिष्टरूपकं । । २.८७ । ।
इष्टं साधर्म्यवैधर्म्यदर्शनाद्गौणमुख्ययोः
उपमाव्यतिरेकाख्यं रूपकाद्वितयं यथा । । २.८८ । ।
अयं आलोहितच्छायो मदेन मुखचन्द्रमाः
संनद्धोदयरागस्य चन्द्रस्य प्रतिगर्जति । । २.८९ । ।
चन्द्रमाः पीयते देवैर्मया त्वन्मुखचन्द्रमाः
असमग्रोऽप्यसौ शश्वदापूर्णमण्डलः । । २.९० । ।
मुखचन्द्रस्य चन्द्रत्वं इत्थं अन्योपतापिनः
न ते सुन्दरि संवादीत्येतदाक्षेपरूपकं । । २.९१ । ।
मुखेन्दुरपि ते चण्डि मां निर्दहति निर्दयं
भाग्यदोषान्ममैवेति तत्समाधानरूपकं । । २.९२ । ।
मुखपङ्कजरङ्गेऽस्मिन्भ्रूलतानर्तकी तव
लीलानृत्यं करोतीति रम्यं रूपकरूपकं । । २.९३ । ।
नैतन्मुखं इदं पद्मं त नेत्रे भ्रमराविमौ
एतानि केसराण्येव नैता दन्तार्चिषस्तव । । २.९४ । ।
मुखादित्वं निवर्त्यैव पद्मादित्वेन रूपणाथ्
उद्भावितगुणोत्कर्षं तत्त्वापह्नवरूपकं । । २.९५ । ।
न पर्यन्तो विकल्पानां रूपकोपमयोरतः
दिङ्मात्रं दर्शितं धीरैरनुक्तं अनुमीयतां । ।इति रूपकचक्रम् । । । । २.९६ । ।
जातिक्रियागुणद्रव्यवाचिनैकत्र वर्तिना
सर्ववाक्योपकारश्चेत्तं आहुर्दीपकं यथा । । २.९७ । ।
पवनो दक्षिणः पार्णं जीर्णं हरति वीरुधां
स एवावनताङ्गीनां मानभङ्गाय कल्पते । । २.९८ । ।
चरन्ति चतुरम्भोधिवेलोद्यानेषु दन्तिनः
चक्रवालाद्रिकुञ्जेषु कुन्दभासो गुणाश्च ते । । २.९९ । ।
श्यामलाः प्रावृषेण्याभिर्दिशो जीमूतपङ्क्तिभिः
भुवश्च सुकुमाराभिर्नवशाद्वलराजिभिः । । २.१०० । ।
विष्णुना विक्रमस्थेन दानवानां विभूतयः
क्वापि नीताः कुतोऽप्यासन्नानीता देवेतर्द्धयः । । २.१०१ । ।
इत्यादिदीपकान्युक्तान्येवं मध्यान्तयोरपि
वाक्ययोर्दर्शयिष्यामः कानि चित्तानि तद्यथा । । २.१०२ । ।
नृत्यन्ति निचुलोत्सङ्गे गायन्ति च कलापिनः
बध्नन्ति च पयोदेषु दृशो हर्षाश्रुगर्भिणीः । । २.१०३ । ।
मन्दो गन्धवहः क्षारो वह्निरिन्दुश्च जायते
चर्चाचन्दनपातश्च शस्त्रपातः प्रवासिनां । । २.१०४ । ।
जलं जलधरोद्गीर्णं कुलं गृहशिखण्डिनां
चलं च तडितां दाम बलं कुसुमधन्वनः । । २.१०५ । ।
त्वया नीलोत्पलं कर्णे स्मरेणास्त्रं शरासने
मयापि मरणे चेतस्त्रयं एतत्समं कृतं । । २.१०६ । ।
शुक्लः श्वेतार्चिषो वृद्ध्यै पक्षः पञ्चशरस्य सः
स च रागस्य रागोऽपि यूनां रत्युत्सवश्रियः । । २.१०७ । ।
इत्यादिदीपकत्वेऽपि पूर्वपूर्वव्यपेक्षिणी
वाक्यमाला प्रयुक्तेति तन्मालादीपकं मतं । । २.१०८ । ।
अवलेपं अनङ्गस्य वर्धयन्ति बलाहकाः
कर्शयन्ति तु धर्मस्य मारुतोद्धूतशीकराः । । २.१०९ । ।
अवलेपपदेनात्र बलाहकपदेन च
क्रिये विरुद्धे संयुक्ते तद्विरुद्धार्थदीपकं । । २.११० । ।
हरत्याभोगं आशानां गृह्णाति ज्योतिषां गणं
आदत्ते चाद्य मे प्राणानसौ जलधरावली । । २.१११ । ।
अनेकशाब्दोपादानात्क्रियैकवात्र दीप्यते
यतो जलधरावल्या तस्मादेकार्थदीपकं । । २.११२ । ।
हृद्यगन्धवहास्तुङ्गास्तमालश्यामलत्विषः
दिवि भ्रमन्ति जीमूता भुवि चैते मतङ्गजाः । । २.११३ । ।
अत्र धर्मैरभिन्नानां अभ्राणां दन्तिनां तथा
भ्रमणेनैव संबन्ध इति श्लिष्टार्थदीपकं । । २.११४ । ।
अनेनैव प्रकारेण शेषाणां अपि दीपके
विकल्पानां अवगतिर्विधातव्या विचक्षणैः । ।इति दीपकचक्रम् । । । । २.११५ । ।
अर्थावृत्तिः पदावृत्तिरुभयावृत्तिरेव च
दीपकस्थान एवेष्टं अलंकारत्रयं यथा । । २.११६ । ।
विकसन्ति कदम्बानि स्फुटन्ति कुटजद्रुमाः
उन्मीलन्ति च कन्दल्यो दलन्ति ककुभानि च । । २.११७ । ।
उत्कण्ठयति मेघानां माला वृन्दं कलापिनां
यूनां चोत्कण्ठयत्येष मानसं मकरध्वजः । । २.११८ । ।
जित्वा विश्वं भवानत्र विहरत्यवरोधनैः
विहरत्वप्सरोभिस्ते रिपुवर्गो दिवं गतः । ।इत्यावृत्तिचक्रम् । । । । २.११९ । ।
प्रतिषेधोक्तिराक्षेपस्त्रैकाल्यापेक्षया त्रिधा
अथास्य पुनराक्षेप्यभेदानन्त्यादनन्तता । । २.१२० । ।
अनङ्गः पञ्चभिः पुष्पैर्विश्वं व्यजयतेषुभिः
इत्यसंभाव्यं अथवा विचित्रा वस्तुशक्तयः । । २.१२१ । ।
इत्यनङ्गजयायोगबुद्धिर्हेतुबलादिह
प्रवृत्तैव यदाक्षिप्ता वृत्ताक्षेपः स ईदृशः । । २.१२२ । ।
कुतः कुवलयं कर्णे करोषि कलभाषिणि
किं अपाङ्गं अपर्याप्तं अस्मिन्कर्मणि मन्यसे । । २.१२३ । ।
स वर्तमानाक्षेपोऽयं कुर्वत्येवासितोत्पलं
कर्णे का चिथ्प्रियेणैवं चाटुकारेण रुध्यते । । २.१२४ । ।
सत्यं ब्रवीमि न त्वं मां द्रष्टुं वल्लभ लप्स्यसे
अन्यचुम्बनसंक्रान्तलाक्षारक्तेन चक्षुष । । २.१२५ । ।
सोऽयं भविष्यदाक्षेपः प्रागेवातिमनस्विनी
कदाचिदपराधोऽस्य भावीत्येवं अरुन्द्ध यथ् । । २.१२६ । ।
तव तन्वङ्गि मिथ्यैव रूढं अङ्गेषु मार्दवं
यदि सत्यं मृदून्येव किं अकाण्डे रुजन्ति मां । । २.१२७ । ।
धर्माक्षेपोऽयं आक्षिप्तं अङ्गनागात्रमार्दवं
कामुकेन यदत्रैवं कर्मणा तद्विरोधिना । । २.१२८ । ।
सुन्दरी सा न वेत्येष विवेकः केन जायते
प्रभामात्रं हि तरलं दृश्यते न तदाश्रयः । । २.१२९ । ।
धर्म्याक्षेपोऽयं आक्षिप्तो धर्मी धर्मं प्रभाह्वयं
अनुज्ञायैव यद्रूपं अत्याश्चर्यं विवक्षता । । २.१३० । ।
चक्षुषी तव रज्येते स्फुरत्यधरपल्लवः
भ्रुवौ च भुग्ने न तथाप्यदुष्टस्यास्ति मे भयं । । २.१३१ । ।
स एष कारणाक्षेपः प्रधानं कारणं भियः
स्वापराधो निषिद्धोऽत्र यत्प्रियेण पटीयसा । । २.१३२ । ।
दूरे प्रियतमः सोऽयं आगतो जलदागमः
दृष्टश्च फुल्ला निचुला न मृता चास्मि किं न्विदं । । २.१३३ । ।
कार्याक्षेपः स कार्यस्य मरणस्य निवर्तनाथ्
तत्कारणं उपन्यस्य दारुणं जलदागमं । । २.१३४ । ।
न चिरं मम तापाय तव यात्रा भविष्यति
यदि यास्यसि यातव्यं अलं आशङ्कयात्र ते । । २.१३५ । ।
इत्यनुज्ञामुखेनैव कन्तस्याक्षिप्यते गतिः
मरणं सूचयन्त्यैव सोऽनुज्ञाक्षेप उच्यते । । २.१३६ । ।
धनं च बहु लभ्यं ते सुखं क्षेमं च वर्त्मनि
न च मे प्राणसंदेहस्तथापि प्रिय मा स्म गाः । । २.१३७ । ।
इत्याचक्षाणया हेतून्प्रिययात्रानुबन्धिनः
प्रभुत्वेनैव रुद्धस्तत्प्रभुत्वाक्षेप उच्यते । । २.१३८ । ।
जीविताशा बलवती धनाशा दुर्बला मम
गच्छ तिष्ठ वा कान्त स्वावस्था तु निवेदिता । । २.१३९ । ।
असावनादराक्षेपो यदनादरवद्वचः
प्रियप्रयाणं रुन्धत्या प्रयुक्तं इह रक्तया । । २.१४० । ।
गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः
ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् । । २.१४१ । ।
इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना
स्वावस्थां सूचयन्त्यैव कान्तयात्रा निषिध्यते । । २.१४२ । ।
यदि सत्यैव यात्रा ते काप्यन्या मृग्यतां त्वया
अहं अद्यैव रुद्धास्मि रन्ध्रापेक्षेण मृत्युना । । २.१४३ । ।
इत्येष परुषाक्षेपः परुषाक्षरपूर्वकं
कान्तस्याक्षिप्यते यस्मात्प्रस्थानं प्रेमनिघ्नया । । २.१४४ । ।
गन्ता चेद्गच्छ तूर्णं ते कर्णौ यान्ति पुरा रवाः
आर्तबन्धुमुखोद्गीर्णाः प्रयाणपरिपन्थिनः । । २.१४५ । ।
साचिव्य्वाक्षेप एवैष यदत्र प्रतिषिध्यते
प्रियप्रयाणं साचिव्यं कुर्वत्येवातिरक्तया । । २.१४६ । ।
गच्छेति वक्तुं इच्छामि मत्प्रिय त्वत्प्रियैषिणी
निर्गच्छति मुखाद्वाणी मा गा इति कर्ॐइ किं । । २.१४७ । ।
यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि
विपरीतफलोत्पत्तेरानर्थक्योपदर्शनाथ् । । २.१४८ । ।
क्षणं दर्शनविघ्नाय पक्ष्मस्पन्दाय कुप्यतः
प्रेम्णः प्रयाणं त्वं ब्रूहि मया तस्येष्टं इष्यते । । २.१४९ । ।
सोऽयं परवशाक्षेपो यत्प्रेमपरतन्त्रया
तया निषिध्यते यात्रान्यस्यार्थसोपसूचनथ् । । २.१५० । ।
सहिष्ये विरहं नाथ देह्यदृश्याञ्जनं मम
यदक्तनेत्रां कन्दर्पः प्रहर्ता मां न पश्यति । । २.१५१ । ।
दुष्करं जीवनोपायं उपन्यस्योपरुध्यते
पत्युः प्रस्थानं इत्याहुरुपायाक्षेपं ईदृशं । । २.१५२ । ।
प्रवृत्तैव प्रयामीति वाणी वल्लभ ते मुखाथ्
अयतापि त्वयेदानीं मन्दप्रेम्णा ममास्ति किं । । २.१५३ । ।
रोषाक्षेपोऽयं उद्रिक्तस्नेहनिर्यन्त्रितात्मना
संरब्धया प्रियारब्धं प्रयाणं यन्निषिध्यते । । २.१५४ । ।
मुग्धा कान्तस्य यात्रोक्तिश्रवणादेव मूर्छिता
बुद्ध्वा वक्ति प्रियं दृष्ट्वा किं चिरेणागतो भवान् । । २.१५५ । ।
इति तत्कालसंभूतमूर्छयाक्षिप्यते गतिः
कान्तस्य कातराक्ष्या यन्मूर्छाक्षेप स ईदृशः । । २.१५६ । ।
नाघ्रातं न कृतं कर्णे स्त्रीभिर्मधुनि नार्पितं
त्वद्द्विषां दीर्घिकास्येव विशीर्णं नीलं उत्पलं । । २.१५७ । ।
असावनुक्रोशाक्षेपः सानुक्रोशं इवोत्पले
व्यावर्त्य कर्म तद्योग्यं शोच्यावस्थोपदर्शनाथ् । । २.१५८ । ।
अमृतात्मनि पद्मानां द्वेष्टरि स्निग्धतारके
मुखेन्दौ तव सत्यस्मिन्नपरेण किं इन्दुना । । २.१५९ । ।
इति मुख्येन्दुराक्षिप्तो गुणान्गौणेन्दुवर्तिनः
तत्समान्दर्शयित्वेह श्लिष्टाक्षेपस्तथाविधः । । २.१६० । ।
अर्थो न संभृतः कश्चिन्न विद्या का चिदर्चिता
न तपः संचिन्तं किं चिद्गतं च सकलं वयः । । २.१६१ । ।
असावनुशयाक्षेपो यस्मादनुशयोत्तरं
अर्थार्जनादेर्व्यावृत्तिर्दर्शितेह गतायुषा । । २.१६२ । ।
किं अयं शरदम्भोदः किं वा हंसकदम्बकं
रुतं नूपुरसंवादि श्रूयते तन्न तोयदः । । २.१६३ । ।
इत्ययं संशयाक्षेपः संशयो यन्निवर्त्यते
धर्मेण हंससुलभेनास्पृष्टघनजानिता । । २.१६४ । ।
चित्रं आक्रान्तविश्वोऽपि विक्रमस्ते न तृप्यति
कदा वा दृश्यते तृप्तिरुदीर्णस्य हविर्भुजः । । २.१६५ । ।
अयं अर्थान्तराक्षेपः प्रक्रान्तो यन्निवार्यते
विस्मयोऽर्थन्तरस्येह दर्शनात्तत्सधर्मणः । । २.१६६ । ।
न स्तूयसे नरेन्द्र त्वं ददासीति कदा चन
स्वं एव मत्वा गृह्णन्ति यतस्त्वद्धनं अर्थिनः । । २.१६७ । ।
इत्येवमादिराक्षेपो हेत्वाक्षेप इति स्मृतः
अनेनैव दिशान्येऽपि विकल्पाः शक्यं ऊहितुं । । इत्याक्षेपचक्रम् । । । । २.१६८ । ।
ज्ञेयह्सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किं चन
तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः । । २.१६९ । ।
विश्वव्यापी विशेषस्थः श्लेषाविद्धो विरोधवान्
अयुक्तकारी युक्तात्मा युक्तायुक्तो विपर्ययः । । २.१७० । ।
इत्येवमादयो भेदाः प्रयोगेष्वस्य लक्षिताः
उदाहरणमालैषां रूपव्यक्त्यै निदर्श्यते । । २.१७१ । ।
भगवन्तौ जगन्नेत्रे सूर्याचन्द्रमसावपि
पश्य गच्छत एवास्तं नियतिः केन लङ्घ्यते । । २.१७२ । ।
पय्ॐउचः परीतापं हरन्त्येव शरीरिणां
नवात्मलाभो महतां परदुःखोपशान्तये । । २.१७३ । ।
उत्पादयति लोकस्य प्रीतिं मलयमारुतः
ननु दाक्षिण्यसंपन्नः सर्वस्य भवति प्रियः । । २.१७४ । ।
जगदानन्दयत्येष मलिनोऽपि निशाकरः
अनुगृह्णाति हि परान्सदोषोऽपि द्विजेश्वरः । । २.१७५ । ।
मधुपानकलात्कण्ठान्निर्गतोऽप्यलिनां ध्वनिः
कटुर्भवति कर्णस्य कामिनां पापं ईदृशं । । २.१७६ । ।
अयं मम दहत्यङ्गं अम्भोजदलसंस्तरः
हुताशनप्रतिनिधिर्दाहात्मा ननु युज्यते । । २.१७७ । ।
क्षिणोतु कामं शीतांशुः किं वसन्तो दुनोति मां
मलिनाचरितं कर्म सुरभेर्नन्वसांप्रतं । । २.१७८ । ।
कुमुदान्यपि दाहाय किं अयं कमलाकरः
न हीन्दुगृह्येषूग्रेषु सूर्यगृह्यो मधुर्भवेत् । ।इत्यर्थान्तरन्यासचक्रम् । । । । २.१७९ । ।
शब्दोपात्ते प्रातीते वा सादृश्ये वस्तुनोर्द्वयोः
तत्र यद्भेदकथनं व्यतिरेकः स कथ्यते । । २.१८० । ।
धैर्यलावण्यगाम्भीर्यप्रमुखैस्त्वं उदन्वतः
गुणैस्तुल्योऽसि भेदस्तु वपुषैवेदृशेन ते । । २.१८१ । ।
इत्येकव्यतिरेकोऽयं धर्मेणैकत्रवर्तिना
प्रतीतिविषयप्राप्तेर्भेदस्योभयवर्तिनः । । २.१८२ । ।
अभिन्नवेलौ गम्भीरावम्बुराशिर्भवानपि
असावञ्जनसंकाशस्त्वं तु चामीकरद्युतिः । । २.१८३ । ।
उभयव्यतिरेकोऽयं उभयोर्भेदकौ गुणौ
कार्ष्ण्यं पिशङ्गता चोभौ यत्पृथग्दर्शिताविह । । २.१८४ । ।
त्वं समुद्रश्च दुर्वारौ महासत्त्वौ सतेजसौ
अयं तु युवयोर्भेदः स जडात्मा पटुर्भवान् । । २.१८५ । ।
स एष श्लेषरूपत्वात्सश्लेष इति गृह्यतां
साक्षेपश्च सहेतुश्च दर्श्यते तदपि द्वयं । । २.१८६ । ।
स्थितिमानपि धीरोऽपि रत्नानां आकरोऽपि सन्
तव कक्षां न यात्येव मलिनो मकरालयः । । २.१८७ । ।
वहन्नपि महीं कृत्स्नां सशैलद्वीपसागरां
भर्तृभावाद्भुजङ्गानां शेषस्त्वत्तो निकृष्यते । । २.१८८ । ।
शब्दोपादानसादृश्यव्यतिरेकोऽयं ईदृशः
प्रतीयमानसादृश्योऽप्यस्ति सोऽप्यभिधीयते । । २.१८९ । ।
त्वन्मुखं कमलं चेति द्वयोरप्यनयोर्भिदा
कमलं जलसंरोहि त्वन्मुखं त्वदुपाश्रयं । । २.१९० । ।
अभ्रूविलासं अस्पृष्तमदरागं मृगेक्षणं
इदं तु नयनद्वन्द्वं तव तगुणभूषितं । । २.१९१ । ।
पूर्वस्मिन्भेदमात्रोक्तिरस्मिन्नाधिक्यदर्शनं
सदृशव्यतिरेकश्च पुनरन्यः प्रदर्श्यते । । २.१९२ । ।
त्वन्मुखं पुण्डरीकं च फुल्ले सुरभिगन्धिनी
भ्रमद्भ्रमरं अम्भोजं लोलनेत्रं मुखं तु ते । । २.१९३ । ।
चन्द्रोऽयं अम्बरोत्तंसो हंसोऽयं तोयभूषणं
नभो नक्षत्रमालीदं उत्फुल्लकुमुदं पयः । । २.१९४ । ।
प्रतीय्मानशौक्ल्यादिसाम्ययोर्वियदम्भसोः
कृतः प्रतीतशुद्ध्योश्च भेदोऽस्मिंश्चन्द्रहंसयोः । । २.१९५ । ।
पूर्वत्र शाब्दवत्साम्यं उभयत्रापि भेदकं
भृङ्गनेत्रादि तुल्यं तत्सदृशव्यतिरेकता । । २.१९६ । ।
अरत्नालोकसंहार्यं अहार्यं सूर्यरश्मिभिः
दृष्टिरोधकरं यूनां यौवनप्रभवं तमः । । २.१९७ । ।
सजातीव्यतिरेकोऽयं तमोजातेरिदं तमः
दृष्टिरोधितया तुल्यं भिन्नं अन्यैरदर्शि तत् । ।इति व्यतिरेकचक्रम् । । । । २.१९८ । ।
प्रसिद्धहेतुव्यावृत्त्या यत्किंचिट्कारणान्तरं
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना । । २.१९९ । ।
अपीतक्षीबकादम्बं असंमृष्टाभलाम्बरं
अप्रसादितशुद्धाम्बु जगदासीन्मनोहरं । । २.२०० । ।
अनञ्जितासिता दृष्टिर्भ्रूरनावर्जिता नता
अरञ्जितोऽरुणश्चायं अधरस्तव सुन्दरि । । २.२०१ । ।
यदपीतादिजन्यं स्याथ्क्षीबत्वाद्यन्यहेतुजं
अहेतुकं च तस्येह विवक्षेत्यविरुद्धता । । २.२०२ । ।
वक्त्रं निसर्गसुरभि वपुरव्याजसुन्दरं
अकारणरिपुश्चन्द्रो निर्निमित्तासुहृत्स्मरः । । २.२०३ । ।
निसर्गादिपदैरत्र हेतुः साक्षान्निवर्तितः
उक्तं च सुरभित्वादि फलं तत्सा विभावना । ।इति विभावनाचक्रम् । । । । २.२०४ । ।
वस्तु किंचिदभिप्रेत्य तत्तुल्यस्यान्यवस्तुनः
उक्तिः संक्षेपरूपत्वात्सा समासोक्तिरिष्यते । । २.२०५ । ।
पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे
अप्यसंनद्धसौरभ्यं पश्य चुम्बति कुड्मलं । । २.२०६ । ।
इति प्रौढाङ्गनाबद्धरतिलीलस्य रागिणः
कस्यां चिदिह बालायां इच्छावृत्तिर्विभाव्यते । । २.२०७ । ।
विशेष्यमात्रभिन्नापि तुल्याकारविशेषणा
अस्त्यसावपराप्यस्ति भिन्नाभिन्नविशेषणा । । २.२०८ । ।
रूढमूलः फलभरैः पुष्णन्ननिशं अर्थिनः
सान्द्रच्छायो महावृक्षः सोऽयं आसादितो मया । । २.२०९ । ।
अनल्पविटपाभोगः फलपुष्पसमृद्धिमान्
सोच्छ्रयः स्थैर्यवान्दैवादेष लब्धो मया द्रुमः । । २.२१० । ।
उभयत्र पुमान्कश्चिद्वृक्षत्वेनोवर्णितः
सर्वे साधारणा धर्माः पूर्वत्रान्यत्र तु द्वयं । । २.२११ । ।
निवृत्तव्यालसंसर्गो निसर्गमधुराशयः
अयं अम्भोनिधिः कष्टं कालेन परिशुष्यति । । २.२१२ । ।
इत्यापूर्वसमासोक्तिः पूर्वधर्मनिवर्तनाथ्
समुद्रेण समानस्य पुंसो व्यापत्तिसूचनात् । ।इति समासोक्तिचक्रम् । । । । २.२१३ । ।
विवक्षा या विशेषस्य लोकसीमातिवर्तिनी
असावतिशयोक्तिः स्यादलंकारोत्तमा यथा । । २.२१४ । ।
मल्लिकामालभारिण्यः सर्वाङ्गीणार्द्रचन्दनाः [[च्ॐः सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम्]]
क्ष्ॐअवत्यो न लक्ष्यन्ते ज्योत्स्नायां अभिसारिकाः । । २.२१५ । ।
चन्द्रातपस्य बाहुल्यं उक्तं उत्कर्षवत्तया
संशयातिशयादीनां व्यक्त्यै किं चिन्निदर्श्यते । । २.२१६ । ।
स्तनयोर्जघनस्यापि मध्ये मध्यं प्रिये तव
अस्ति नास्तीति संदेहो न मेऽद्यापि निवर्तते । । २.२१७ । ।
निर्णेतुं शक्यं अस्तीति मध्यं तव नितम्बिनि
अन्यथानुपपत्त्यैव पयोधरभरस्थितेः । । २.२१८ । ।
अहो विशालं भूपाल भुवनत्रितयोदरं
माति मातुं अशक्योऽपि यशोराशिर्यदत्र ते । । २.२१९ । ।
अलंकारान्तराणां अप्येकं आहुः परायणं
वागीशमहितां उक्तिं इमां अतिशयाह्वयं । ।इत्यतिशयोक्तिचक्रम् । । । । २.२२० । ।
अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा
अन्यथोत्प्रेक्ष्यते यत्र तां उत्प्रेक्षां विदुर्यथा । । २.२२१ । ।
माध्यंदिनार्कसंतप्तः सरसीं गाहते गजः
मन्ये मार्तण्डगृह्याणि पद्मान्युद्धर्तुं उद्यतः । । २.२२२ । ।
स्नातुं पातुं बिसान्यत्तुं करिणो जलगाहनं
तद्वैरनिष्क्रयायेति कविनोत्प्रेक्ष्य वर्ण्यते । । २.२२३ । ।
कर्णस्य भूषणं इदं ममायातिविरोधिनः
इति कर्णोत्पलं प्रायस्तव दृष्ट्या विलङ्घ्यते । । २.२२४ । ।
अपाङ्गभागपातिन्या दृष्टेरंशुभिरुत्पलं
स्पृश्यते वा न वेत्येवं कविनोत्प्रेक्ष्य वर्ण्यते । । २.२२५ । ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः
इतीदं अपि भूयिष्ठं उत्प्रेक्षालक्षणानन्वितं । । २.२२६ । ।
केषां चिदुपमाभ्रान्तिरिवश्रुत्येह जायते
नोपमानं तिङन्तेनेत्यतिक्रम्याप्तभाषितं । । २.२२७ । ।
उपमानोपमेयत्वं तुल्यधर्मव्यपेक्षया
लिम्पतेस्तमसश्चासौ धर्मः कोऽत्र समीक्ष्यते । । २.२२८ । ।
यदि लेपनं एवेष्टं लिम्पतिर्नाम कोऽपरः
स एव धर्मो धर्मी चेत्यनुन्मत्तो न भाषते । । २.२२९ । ।
कर्ता यद्युपमानं स्यान्न्यग्भूतोऽसौ क्रियापदे
स्वक्रियासाधनव्यग्रो नालं अन्यदपेक्षितुं । । २.२३० । ।
यो लिम्पत्यमुना तुल्यं तम इत्यपि शंसतः
अङ्गानीति न संबद्धं सोऽपि मृग्यः समो गुणः । । २.२३१ । ।
यथेन्दुरिव ते वक्त्रं इति कान्तिः प्रतीयते
न तथा लिम्पतेर्लेपादन्यदत्र प्रतीयते । । २.२३२ । ।
तदुपश्लेषणार्थोऽयं लिम्पतिर्ध्वान्तकर्तृकः
अङ्गकर्मा च पुंसैवं उत्प्रेक्ष्यत इतीष्यतां । । २.२३३ । ।
मन्ये शङ्के ध्रुवं प्रायो नूनं इत्येवमादिभिः
उत्प्रेक्षा व्यज्यते शब्दैरिवशब्दोऽपि तादृशः । । इत्युत्प्रेक्षाचक्रम् । । । । २.२३४ । ।
हेतुश्च सूक्ष्मलेशौ च वाचां उत्तमभूषणं
कारकज्ञापकौ हेतू तौ चानेकविधौ यथा । । २.२३५ । ।
अयं आन्दोलितप्रौढचन्दनद्रुमपल्लवः
उत्पादयति सर्वस्य प्रीतिं मलयमारुतः । । २.२३६ । ।
प्रीत्युत्पादनयोग्यस्य रूपस्यात्रोपबृंहणं
अलंकारतयोद्दिष्टं निवृत्तावपि तत्समं । । २.२३७ । ।
चन्दनारण्यं आधूय स्पृष्ट्वा मलयनिर्झरान्
पथिकानां अभावाय पवनोऽयं उपस्थितः । । २.२३८ । ।
अभावसाधनायालं एवंभूतो हि मारुतः
विरहज्वरसंभूतमनोज्ञारोचके जने । । २.२३९ । ।
निवर्त्ये च विकार्ये च हेतुत्वं तदपेक्षया
प्राप्ये तु कर्मणि प्रायः क्रियापेक्षैव हेतुता । । २.२४० । ।
हेतुर्निर्वर्तनीयस्य दर्शितः शेषयोर्द्वयोः
दत्त्वोदाहरणद्वन्द्वं ज्ञापको वर्णयिष्यते । । २.२४१ । ।
उत्प्रवालाण्यरण्यानि वाप्यः संफुल्लपङ्कजाः
चन्द्रः पूर्णश्च कामेन पान्थदृष्टेर्विषं कृतं । । २.२४२ । ।
मानयोग्यां कर्ॐईति प्रियस्थानस्थितां सखीं
बाला भ्रूभङ्गजिह्माक्षी पश्यति स्फुरिताधरा । । २.२४३ । ।
गतोऽस्तं अर्को भातीन्दुर्यान्ति वासाय पक्षिणः
इतीदं अपि साध्वेव कालावस्थानिवेदने । । २.२४४ । ।
अवध्यैरिन्दुपादानां असाध्यैश्चन्दनाम्भसां
देहोष्मभिः सुबोधं ते सखि कामातुरं मनः । । २.२४५ । ।
इति लक्ष्याः प्रयोगेषु रम्या ज्ञापकहेतवः
अभावहेतवः के चिद्व्याह्रियन्ते मनोहराः । । २.२४६ । ।
अनभ्यासेन विद्यानां असंसर्गेण धीमतां
अनिग्रहेण चाक्षाणांजायते व्यसनं नृणां । । २.२४७ । ।
गतः कामकथोन्मादो गलितो यौवनज्वरः
क्षतो मोहश्च्युता तृष्णा कृतं पुण्याश्रमे मनः । । २.२४८ । ।
वनान्यमूनि न गृहाण्येता नद्यो न योषितः
मृगा इमे न दायादास्तन्मे नन्दति मानसं । । २.२४९ । ।
अत्यन्तं असदार्याणां अनलोचितचेष्टितं
अतस्तेषां विवर्धन्ते सततं सर्वसंपदः । । २.२५० । ।
उद्यानसहकाराणां अनुद्भिन्ना न मञ्जरी
देयः पथिकनारीणां सतिलः सलिलाञ्जलिः । । २.२५१ । ।
प्रागभावादिरूपस्य हेतुत्वं इह वस्तुनः
भावाभावस्वरूपस्य कार्यस्योत्पादनं प्रति । । २.२५२ । ।
दूरकार्यस्तत्सहजः कार्यानन्तरजस्तथा
अयुक्तयुक्तकार्यौ चेत्यसंख्याश्चित्रहेतवः । । २.२५३ । ।
तेऽमी प्रयोगमार्गेषु गौणवृत्तिव्यपाश्रयाः
अत्यन्तसुन्दरा दृष्टास् तदुदाहृतयो यथा । । २.२५४ । ।
त्वदपाङ्गाह्वयं जैत्रं अनङ्गास्त्रं यदङ्गने
मुक्तं तदन्यतस्तेन सोऽप्यहं मनसि क्षतः । । २.२५५ । ।
आविर्भवति नारीणां वयः पर्यस्तशैशवं
सहैव विविधैः पुंसां अङ्गजोन्मादविभ्रमैः । । २.२५६ । ।
पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलं
प्रागेव हरिणाक्षीणां उदीर्णो रागसागरः । । २.२५७ । ।
राज्ञां हस्तारविन्दानि कुड्मलीकुरुते कुतः
देव त्वच्चरणद्वन्द्वरागबालातपः स्पृशन् । । २.२५८ । ।
पाणिपद्मानि भूपानां संकोचयितुं ईशते
त्वत्पादनखचन्द्राणां अर्चिषः कुन्दनिर्मलाः । । २.२५९ । ।
इति हेतुविकल्पानां दर्शिता गतिरीदृशी । । इति हेतुचक्रम् । ।
इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः । । २.२६० । ।
कदा नौ संगमो भावीत्याकीर्णे वक्तुं अक्षमं
अवेत्य कान्तं अबला लीलापद्मं न्यमीलयथ् । । २.२६१ । ।
पद्मसंमीलनादत्र सूचितो निशि संगमः
आश्वासयितुं इच्छन्त्या प्रियं अङ्गजपीडितं । । २.२६२ । ।
मदर्पितदृशस्तस्या गीतगोष्ठ्यां अवर्धत
उद्दामरागतरला छाया कापि मुखाम्बुजे । । २.२६३ । ।
इत्यनुद्भिन्नरूपत्वाद्रत्युत्सवमनोरथह्
अनुल्लङ्ह्ग्यैव सूक्ष्मत्वं अभूदत्र व्यवस्थितः । ।इति सूक्ष्मचक्रम् । । । । २.२६४ । ।
लेशो लेशेन निर्भिन्नवस्तुरूपनिगूहनं
उदाहरण एवास्य रूपं आविर्भविष्यति । । २.२६५ । ।
राजकन्यानुरक्तं मां र्ॐओद्भेदेन रक्षकः
अवगच्छेयुरा ज्ञातं अहो शीतानिलं वनं । । २.२६६ । ।
आनन्दाश्रु प्रवृत्तं मे कथं दृष्ट्वैव कन्यकां
अक्षि मे पुष्परजसा वातोद्धूतेन दूषितं । । २.२६७ । ।
इत्येवं आदिस्थानेऽयं अलंकारोऽतिशोभते
लेशं एके विदुर्निन्दां स्तुतिं वा लेशतः कृतां । । २.२६८ । ।
युवैष गुणवान्राजा योग्यस्ते पतिरूर्जितः
रणोत्सवे मनः सक्तं यस्य कामोत्सवादपि । । २.२६९ । ।
वीर्योत्कर्षस्तुतिर्निन्दैवास्मिन्भावनिवृत्तये
कन्यायाः कल्पते भोगान्निर्विविक्षोर्निरन्तरं । । २.२७० । ।
चपलो निर्दयश्चासौ जनः किं तेन मे सखि
आगःप्रमार्जनायैव चाटवो येन शिक्षिताः । । २.२७१ । ।
दोषाभासो गुणः कोऽपि दर्शितश्चाटुकारिता
मानं सखिजनोद्दिष्टं कर्तुं रागादशक्तया । । इति लेशचक्रम् । । । । २.२७२ । ।
उद्दिष्टानां पदार्थानां अनूद्देशो यथाक्रमं
यथासंख्यं इति प्रोक्तं संख्यानं क्रम इत्यपि । । २.२७३ । ।
ध्रुवं ते चोरिता तन्वि स्मितेक्षणमुखद्युतिः
स्नातुं अम्भःप्रविष्टायाः कुमुदोत्पलपङ्कजैः । । इति क्रमः । । । । २.२७४ । ।
प्रेयः प्रियतराख्यानं रसवद्रसपेशलं
ऊर्जस्वि रूढाहंकारं युक्तोत्कर्षं च तत्त्रयं । । २.२७५ । ।
अद्य या मम गोविन्द जाता त्वयि गृहागते
कालेनैषा भवेत्प्रीतिस्तवैवागमनात्पुनः । । २.२७६ । ।
इत्याह युक्तं विदुरो नान्यतस्तादृशी धृतिः
भक्तिमात्रसमाराध्यः सुप्रीतश्च ततो हरिः । । २.२७७ । ।
स्ॐअः सूर्यो मरुद्भूमिर्व्य्ॐअ होतानलो जलं
इति रूपाण्यतिक्रम्य त्वां द्रष्टुं देव के वयं । । २.२७८ । ।
इति साक्षात्कृते देवे राज्ञो यद्रातवर्मणः
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यतां । । २.२७९ । ।
मृतेऽति प्रेत्य संगन्तुं यया मे मरणं मतं
सैवावन्ती मया लब्धा कथं अत्रैव जन्मनि । । २.२८० । ।
प्राक्प्रीतिर्दर्शिता सेयं रतिः शृङ्गारतां गता
रूपबाहुल्ययोगेन तदिदं रसवद्वचः । । २.२८१ । ।
निगृह्य केशेष्वाकृष्टा कृष्णा येनाग्रतो मम
सोऽयं दुःशासनः पापो लब्धः किं जीवति क्षणं । । २.२८२ । ।
इत्यारुह्य परां कोटिं क्रोधो रौद्रात्मतां गतः
भीमस्य पश्यतः शत्रुं इत्येतद्रसवद्वचः । । २.२८३ । ।
अजित्वा सार्णवां उर्वीं अनिष्ट्वा विविधैर्मखैः
अदत्वा चार्थं अर्थिभ्यो भवेयः पार्थिवः कथं । । २.२८४ । ।
इत्युत्साहः प्रकृष्टात्मा तिष्ठन्वीररसात्मना
रसवत्त्वं गिरां आसां समर्थयितुं ईश्वरः । । २.२८५ । ।
यस्याः कुसुमशय्यापि क्ॐअलाङ्ग्या रुजाकरी
साधिशेते कथं तन्वी हुताशनवतीं चितां । । २.२८६ । ।
इति कारुण्यं उद्रिक्तं अलंकारतया स्मृतं
तथापरेऽपि बीभत्सहास्याद्भुतभयानकाः । । २.२८७ । ।
पायं पायं तवारीणां शोणितं पाणिसंपुटैः
कौणपाः सह नृत्यन्ति कबन्धैरन्त्रभूषणाः । । २.२८८ । ।
इदं अम्लानमानाया लग्नं स्तनतटे तव
छाद्यतां उत्तरीयेण नवं नखपदं सखि । । २.२८९ । ।
अंशुकानि प्रवालानि पुष्पं हारादिभूषणं
शाखाश्च मन्दिराण्येषां चित्रं नन्दनशाखिनां । । २.२९० । ।
इदं मघोनः कुलिशं धारासंनिहितानलं
स्मरणं यस्य दैत्यस्त्रीगर्भपाताय कल्पते । । २.२९१ । ।
वाक्यस्याग्राम्यतायोनिर्माधुर्ये दर्शितो रसः
इह त्वष्टरसायत्ता रसवत्ता स्मृता गिरां । ।इति रसवच्चक्रम् । । । । २.२९२ । ।
अपकर्ताहं अस्मीति हृदि ते मा स्म भूद्भयं
विमुखेषु न मे खड्गः प्रहर्तुं जातु वाञ्छति । । २.२९३ । ।
इति मुक्तः परो युद्धे निरुद्धो दर्पशलिना
पुंसा केनापि तज्ज्ञेयं ऊर्जस्वीत्येवमादिकं । ।इत्यूर्जस्वि । । । । २.२९४ । ।
अर्थं इष्टं अनाख्याय साक्षात्तस्यैव सिद्धये
यत्प्रकारान्तराख्यानं पर्यायोक्तं तदिष्यते । । २.२९५ । ।
दशत्यसौ परभृतह्सहकारस्य मञ्जरीं
तं अहं वारयिष्यामि युवाभ्यां स्वैरं आस्यतां । । २.२९६ । ।
संगमय्य सखीं यूना संकेते तद्रतोत्सवं
निर्वर्तयितुं इच्छन्त्या कयाप्यपसृतं ततः । ।इति पर्यायोक्तम् । । । । २.२९७ । ।
किंचिदारभमाणस्य कार्यं दैववशात्पुनः
तत्साधनसमापत्तिर्या तदाहुः समाहितं । । २.२९८ । ।
मानं अस्या निराकर्तुं पादयोर्मे पतिष्यतः
उपकाराय दिष्ट्यैतदुदीर्णं घनगर्जितं । । इति समाहितम् । । । । २.२९९ । ।
आशयस्य विभूतेर्वा यन्महत्वं अनुत्तमं
उदात्तं नाम तं प्राहुरलंकारं मनीषिभिः । । २.३०० । ।
गुरोः शसनं अत्येतुं न शशाक स राघवः
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः । । २.३०१ । ।
रत्नभित्तिषु संक्रान्तैः प्रतिबिम्बशतैर्वृतः
ज्ञातो लङ्केश्वरः कृच्छ्रादाञ्जनेयेन तत्त्वतः । । २.३०२ । ।
पूर्वत्राशयमाहात्म्यं अत्राभ्युदयगौरवं
सुव्यञ्जितं इति प्रोक्तं उदात्तद्वयं अप्यदः । । इत्युदात्तम् । । । । २.३०३ । ।
अपह्नुतिरपह्नुत्य किंचिदन्यार्थदर्शनं
न पञ्चेषु स्मरस्तस्य सहस्रं पत्रिणां इति । । २.३०४ । ।
चन्दनं चन्द्रिका मन्दो गन्धवाहश्च दक्षिणः
सेयं अग्निमयी सृष्टिर्मयि शीता परान्प्रति । । २.३०५ । ।
शैशिर्यं अभ्युपेत्यैव परेष्वात्मनि कामिना
औष्ण्यप्रकाशनात्तस्य सेयं विषयनिःनुतिः । । २.३०६ । ।
अमृतस्यन्दिकिरणश्चन्द्रमा नामतो मतः
अन्य एवायं अर्थात्मा विषनिष्यन्दिदीधितिः । । २.३०७ । ।
इति चन्द्रत्वं एवेन्दौ निवर्त्यार्थान्तरात्मता
उक्ता स्मरार्तेनेत्येषा स्वरूपापह्नुतिर्मता । । २.३०८ । ।
उपमापह्नुतिः पूर्वं उपमास्वेव दर्शिता
इत्यपह्नुतिभेदानां लक्ष्यो लक्ष्येषु विस्तरः । ।इत्यपहनुतिः । । । । २.३०९ । ।
श्लिष्टं इष्टं अनेकार्थं एकरूपान्वितं वचः
तदभिन्नपदं भिन्नपदप्रायं इति द्विधा । । २.३१० । ।
असावुदयं आरूढः कान्तिमान्रक्तमण्डलः
राजा हरति लोकस्य हृदयं मृदुभिः करैः । । २.३११ । ।
दोषाकरेण संबध्नन्नक्षत्रपथवर्तिना
राज्ञा प्रदोषो मां इत्थं अप्रियं किं न बाधते । । २.३१२ । ।
उपमारूपकाक्षेपव्यतिरेकादिगोचराः
प्रागेव दर्शिताः श्लेषा दर्श्यन्ते के चनापरे । । २.३१३ । ।
अस्त्यभिन्नक्रियः कश्चिदविरुद्धक्रियोऽपरः
विरुद्धकर्मा चास्त्यन्यः श्लेषो नियमवानपि । । २.३१४ । ।
नियमाक्षेपरूपोक्तिरविरोधी विरोध्यपि
तेषां निदर्शनेष्वेव रूपं आविर्भविष्यति । । २.३१५ । ।
वक्राः स्वभावमधुराः शंसन्त्यो रागं उल्बणं
दृशो दूत्यश्च कर्षन्ति कान्ताभिः प्रेषिताः प्रियान् । । २.३१६ । ।
मधुरा रागवर्धिन्यः क्ॐअलाः कोकिलागिरः
आकर्ण्यन्ते मदकलाह्श्लिष्यन्ते चासितेक्षनाः । । २.३१७ । ।
रागं आदर्शयन्नेष वारुणीयोगवर्धितं
तिरोभवति धर्मांशुरङ्गजस्तु विजृंभते । । २.३१८ । ।
निस्त्रिंशत्वं असावेव धनुष्येवास्य वक्रता
शरेष्वेव नरेन्द्रस्य मार्गणत्वं च वर्तते । । २.३१९ । ।
पद्मानां एव दण्डेषु कण्टकस्त्वयि रक्षति
अथवा दृश्यते रागिमिथुनालिङ्गनेष्वपि । । २.३२० । ।
महीभृद्भूरिकटकस्तेजस्वी नियतोदयः
दक्षः प्रजापतिश्चासीथ्स्वामी शक्तिधरश्च सः । । २.३२१ । ।
अच्युतोऽप्यवृषच्छेदी राजाप्यविदितक्षयः
देवोऽप्य् अविबुधो जज्ञे शंकरोऽप्यभुजङ्गवान् । ।इति श्लेषचक्रम् । । । । २.३२२ । ।
गुणजातिक्रियादीनां यत्तु वैकल्यदर्शनं
विशेषदर्शनायैव सा विशेषोक्तिरिष्यते । । २.३२३ । ।
न कठोरं न वा तीक्ष्णं आयुधं पुष्पधन्वनः
तथापि जितं एवासीदमुना भुवनत्रयं । । २.३२४ । ।
न देवकन्यका नापि गन्धर्वकुलसंभवा
तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलं । । २.३२५ । ।
न बद्धा भ्रूकुटिर्नापि स्फुरितो दशनच्छदः
न च रक्ताभवद्दृष्टिर्जितं च द्विषतां कुलं । । २.३२६ । ।
न रथा न च मातङ्गा न हया न च पत्तयः
स्त्रीणां अपाङ्गदृष्ट्यैव जीयते जगतां त्रयं । । २.३२७ । ।
एकचक्रो रथो यन्ता विकलो विषमा हयाः
आक्रामत्येव तेजस्वी तथाप्यर्को नभस्तलं । । २.३२८ । ।
सैषा हेतुविशेषोक्तिस्तेजस्वीति विशेषणाथ्
अयं एव क्रमोऽन्येषां भेदानां अपि कल्पने । ।इति विशेषोक्तिचक्रम् । । । । २.३२९ । ।
विवक्षितगुणोत्कृष्तैर्यत्समीकृत्य कस्य चिथ्
कीर्तनं स्तुतिनिन्दार्थं सा मता तुल्ययोगिता । । २.३३० । ।
यमः कुबेरो वरुणः सहस्राक्षो भवानपि
बिभ्रन्त्यनन्यविषयां लोकपाल इति श्रुतिं । । २.३३१ । ।
संगतानि मृगाक्षीणां तडिद्विलसितानि च
क्षणद्वयं न तिष्ठन्ति घनारब्धान्यपि स्वयं । ।इति तुल्ययोगिता । । । । २.३३२ । ।
विरुद्धानां पदार्थानां यत्र संसर्गदर्शनं
विशेषदर्शनायैव स विरोधः स्मृतो यथा । । २.३३३ । ।
कूजितं राजहंसानां वर्धते मदमञ्जुलं
क्षीयते च मयूराणां रुतं उत्क्रान्तसौष्ठवं । । २.३३४ । ।
प्रावृषेण्यैर्जलधरैरम्बरं दुर्दिनायते
रागेण पुनराक्रान्तं जायते जगतां मनः । । २.३३५ । ।
तनुमध्यं पृथुश्रोणि रक्तौष्ठं असितेक्षणं
नतनाभि वपुः स्त्रीणां कं न हरत्युन्नतस्तनं । । २.३३६ । ।
मृणालबाहु रम्भोरु पद्मोत्पलमुखेक्षणं
अपि ते रूपं अस्माकं तन्वि तापाय कल्पते । । २.३३७ । ।
उद्यानमारुतोद्धूताश्चूतचम्पकरेणवः
उदश्रयन्ति पान्थानां अस्पृशन्तोऽपि लोचने । । २.३३८ । ।
कृष्णार्जुनानुरक्तापि दृष्टिः कर्णावलम्बिनी
याति विश्वसनीयत्वं कस्य ते कलभाषिनि । । २.३३९ । ।
इत्यनेकप्रकारोऽयं अलंकारः प्रतीयते । ।इति विरोधचक्रम् । ।
अप्रस्तुतप्रशंसा स्यादप्रक्रान्तेषु या स्तुतिः । । २.३४० । ।
सुखं जीवन्ति हरिणा वनेष्वपरसेविनः
अन्नैरयत्नसुलभैस्तृणदर्भाङ्कुरादिभिः । । २.३४१ । ।
सेयं अप्रस्तुतैवात्र मृगवृत्तिः प्रशस्यते
राजानुवर्तनक्लेशनिर्विण्णेन मनस्विना । ।इत्यप्रस्तुतप्रशंसा । । । । २.३४२ । ।
यदि निन्दन्निव स्तौति व्याजस्तुतिरसौ स्म्र्ता
दोषाभासा गुणा एव लभन्ते ह्यत्र संनिधिं । । २.३४३ । ।
तापसेनापि रामेण जितेयं भूतधारिणी
त्वया राज्ञापि सैवेयं जिता मा भून्मदस्तव । । २.३४४ । ।
पुंसः पुराणादाच्छिद्य श्रीस्त्वया परिभुज्यते
राजन्निक्षाकुवंशस्य किं इदं तव युज्यते । । २.३४५ । ।
भुजङ्गभोगसंसक्ता कलत्रं तव मेदिनी
अहङ्कारः परां कोटिं आरोहति कुतस्तव । । २.३४६ । ।
इति श्लेषानुविद्धानां अन्येषां चोपलक्ष्यतां
व्याजस्तुतिप्रकाराणां अपर्यन्तस्तु विस्तरः । ।इति व्याजस्तुतिः । । । । २.३४७ । ।
अर्थान्तरप्रवृत्तेन किं चित्तत्सदृशं फलं
सदसद्वा निदर्श्येत यदि तत्स्यान्निदर्शनं । । २.३४८ । ।
उदयन्नेष सविता पद्मेष्वर्पयति श्रियं
विभावयितुं ऋद्धीनां फलं सुहृदनुग्रहं । । २.३४९ । ।
याति चन्द्रांशुभिः स्पृष्टा ध्वान्तराजी पराभवं
सद्यो राजविरुद्धानां सूचयन्ती दुरन्ततां । ।इति निदर्शनम् । । । । २.३५० । ।
सहोक्तिः सहभावेन कथनं गुणकर्मणां
अर्थानां यो विनिमयः परिवृत्तिस्तु सा स्मृता । । २.३५१ । ।
सह दीर्घा मम श्वासैरिमाः सम्प्रति रात्रयः
पाण्डुराश्च ममैवाङ्गेः सह ताश्चन्द्रभूषणाह् । । २.३५२ । ।
वर्धते सह पान्थानां मूर्च्छया चूतमञ्जरी
पतन्ति च समं तेषां असुभिर्मलयानिलाः । । २.३५३ । ।
कोकिलालापसुभगा सुगन्धिवनवायवः
यान्ति सार्धं जनानन्दैर्वृद्धिं सुरभिवासराः । । २.३५४ । ।
इत्युदाहृतयो दत्ताः सहोक्तेरत्र काश्चन । ।इति सहोक्तिः । ।
क्रियते परिवृत्तेश्च किं चिद्रूपनिदर्शनं । । २.३५५ । ।
शस्त्रप्रहारं ददता भुजेन तव भूभुजां
चिरार्जितं हृतं तेषां यशः कुमुदपाण्डुरं । ।इति परिवृत्तिः । । । । २.३५६ । ।
आशीर्नामाभिलषिते वस्तुन्याशंसनं यथा
पातु वः परमं ज्योतिरवाङ्मनसगोचरं । ।इत्याशीः । । । । २.३५७ । ।
अनन्वयससंदेहाव् उपमास्वेव दर्शितौ
उपमारूपकं चापि रूपकेष्वेव दर्शितं । । २.३५८ । ।
उत्प्रेक्षाभेद एवासावुत्प्रेक्षावयवोऽपि च
नानालंकारसंसृष्टिः संसृष्टिस्तु निगद्यते । । २.३५९ । ।
अङ्गाङ्गिभावावस्थानं सर्वेषां समकक्षता
इत्यलंकारसंसृष्टेर्लक्षणीया द्वयी गतिः । । २.३६० । ।
आक्षिपन्त्यरविन्दानि मुग्धे तव मुखश्रियं
कोशदण्डसमग्राणां किं एषां अस्ति दुष्करं । । २.३६१ । ।
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता । । २.३६२ । ।
श्लेषः सर्वासु पुष्णाति प्रायो वक्रोक्तिषु श्रियं
भिन्नं द्विधा स्वभावोक्तिर्वक्रोक्तिश्चेति वाङ्मयं । ।इति संसृष्तिः । । । । २.३६३ । ।
तद्भाविकं इति प्राहुः प्रबन्धविषयं गुणं
भावः कवेरभिप्रायः काव्येष्वासिद्धि संस्थितः । । २.३६४ । ।
परस्परोपकारित्वं सर्वेषां वस्तुपर्वणां
विशेषाणां व्यर्थानां अक्रिया स्थानवर्णना । । २.३६५ । ।
व्यक्तिरुक्तिक्रमबलाद्गम्भीरस्यापि वस्तुनः
भावायत्तां इदं सर्वं इति तद्भाविकं विदुः । ।इति भाविकम् । । । । २.३६६ । ।
यच्च संध्यङ्गवृत्त्यङ्गलक्षणाद्यागमान्तरे
व्यावर्णितं इदं चेष्टं अलङ्कारतयाइव नः । । २.३६७ । ।
पन्थाः स एष विवृतः परिमाणवृत्त्या संहृत्य विस्तरं अनन्तं अलङ्क्रियाणां
वाचां अतीत्य विषयं परिवर्तमानान् अभ्यास एव विवरीतुं अलं विशेषान् । । २.३६८ । ।
इत्याचार्यदण्डिनः कृतौ काव्यादर्शेऽर्थालङ्कारविभागो नाम द्वितीयो परिच्छेदः । ।