The site is under construction...
॥ श्रीः॥
श्रीगणेशाय नमः ।
(नान्द्यते ततः प्रविशति सूत्रधारः)
सूत्रधारः--
नरमृगपतिवर्ष्मालोकनभ्रान्तनारी-
नरदनुजसुपर्वव्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः
सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥ १॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय ।
सूत्रधारः -- भवतु, विज्ञातम् ।
सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति संभ्रान्तो भृत्यो दुर्योधनाज्ञया ॥ २॥
(निष्क्राण्तः)
प्रस्तावना ।
(ततः प्रविशति भटः)
भटः -- भो भो ! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय युद्धकाल उपस्थित इति ।
करितुरगरथस्थैः पार्थकेतोः पुरस्ताद्
मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादैर्दुःसहं लोकवीरः
समरमधिगतार्थः प्रस्थितो नागकेतुः ॥ ३॥
(परिक्रम्यावलोक्य) अये एषोङ्गराजः समरपरिच्छदपरिवृतः शल्यराजसहितः स्वभवनान्निष्क्रम्येत एवाभिवर्तते । भोः ! किन्नुखलु युद्धोत्सवप्रमुखस्या दृष्टपराक्रमस्याभूतपूर्वोहृदयपरितापः । एष हि,
अत्युग्रदीप्तिविशदः समरेङ्ग्रगण्यः
शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः
सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥ ४॥
यावदपसर्पामि । (निष्क्रान्तः)
(ततः प्रविशति यथोक्तरूपः कर्णः शाल्यश्च)
कर्णः --
मा तावन्मम शरमार्गलक्षभूताः
किं प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां
द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥ ५॥
शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
शल्यः -- बाढम् । (चोदयति)
कर्णः -- अहोतुखलु,
अन्योन्यशस्त्रविनिपातनिकृत्तगात्र-
यौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि
वैधुर्यमापतति चेतसि युद्धकाले ॥ ६॥
भोः ! कष्टम् ।
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥ ७॥
अयं स कालः क्रमलब्धशोभनो
गुणप्रकर्षो दिवसोऽयमागतः ।
निरर्थमस्त्रं च मया हि शिक्षितं
पुनश्च मातुर्वचनेन वारितः ॥ ८॥
भो मद्रराज ! श्रूयतां ममास्त्रस्य वृत्तान्तः ।
शल्यः -- ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् ।
कर्णः -- पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि ।
शल्यः -- ततस्ततः ।
कर्णः -- ततः,
विद्युल्लताकपिलतुङ्गजटाकलापम्
उद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्रान्तकं मुनिवरं भृगुवंशकेतुं
गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥ ९॥
शल्यः -- ततस्ततः ।
कर्णः -- ततस्तेन जामदग्न्येन ममाशीर्वचनं दत्त्वा पृष्टोऽस्मि, को भवान् किमर्थमिहागत इति ।
शल्यः -- ततस्ततः ।
कर्णः -- भगवन् ! अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि ।
शल्यः -- ततस्ततः ।
कर्णः -- तत उक्तोऽहं भगवता, ब्राह्मणेषूपदेशं करिष्यामि,
न क्षत्रियाणामिति ।
शल्यः -- अस्ति खलु भगवतः क्षत्रियवंश्यैः पूर्ववैरम् । ततस्ततः ।
कर्णः -- ततो नाहं क्षत्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धः ।
शल्यः -- ततस्ततः ।
कर्णः -- ततः कतिपयकालातिक्रमे कदाचित् फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि । ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः ।
शल्यः -- ततस्ततः ।
कर्णः -- ततः,
कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये
निद्राच्छेदभयादसह्यत गुरोर्धैर्यात् तदा वेदना ।
उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो
बुद्ध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥ १०॥
शल्यः -- अहो कष्टमभिहितं तत्रभवता ।
कर्णः -- परीक्षामहे तावदस्त्रस्य वृत्तान्तम् । (तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते । अपिच,
इमे हि दैन्येन निमीलितेक्षणा
मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
गजाश्च सप्तच्छददानगन्धिनो
निवेदयन्तीव रणे निवर्तनम् ॥ ११॥
शङ्खदुन्दुभयश्च निःशब्दाः ।
शल्यः -- भोः ! कष्टं खल्विदम् ।
कर्णः -- शल्यराज ! अलमलं विषादेन ।
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥ १२॥
अपिच,
इमे हि युद्धेष्वनिवर्तिताशा
हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाता
रक्षन्त्यमी यद्यपि रक्षितव्यम् ॥ १३॥
अक्षयोऽस्तु गोब्राह्मणानाम् । अक्षयोऽस्तु पतिव्रतानाम् । अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् । अक्षयोऽस्तु मम प्राप्तकालस्या ।
एष भोः, प्रसन्नोऽस्मि ।
समरमुखमसह्यं पाण्डवानां प्रविश्य
प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा ।
मम शरवरवेगैरर्जुनं पातायित्वा
वनमिव हतसिंहं सुप्रवेशं करोमि ॥ १४॥
शल्यराजा ! यावद् रथमारोहावः ।
शल्यः -- बाढम् ।
(उभौ रथारोहणं नाटयतः)
कर्णः -- शल्यराज ! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
(नेपथ्ये)
भो कण्ण ! महत्तरं भिक्खं याचेमि । [भोः कर्ण ! महत्तरां भिक्षां याचे]
कर्णः -- (आकर्ण्य) अये वीर्यवान् शब्दः ।
श्रीमानेव न केवलं द्विजवरो यस्मात् प्रभावो महान्
आकर्ण्य स्वरमस्य धीरमधुरं चित्रार्पिताङ्गा इव ।
उत्कर्णस्तिमिताञ्चिताक्षवलितग्रीवार्पिताग्राननास्
तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ॥ १५॥
आहूयतां स विप्रः । न न । अहमेवाह्वयामि । भगवन् ! इत इतः ।
(ततः प्रविशति ब्राह्मणरूपेण शक्रः)
शक्रः -- भो मेघाः ! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः । (कर्णमुपगम्य) भो कण्ण ! महत्तरं भिक्खं याचेमि । [भोः कर्ण! महत्तरां भिक्षां याचे ।]
कर्णः -- दृढं प्रीतोऽस्मि भगवन् !
यातः कृतार्थगणनामहमद्य लोके
राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः
कर्णो भवन्तमहमेष नमस्करोमि ॥ १६॥
शक्रः -- (आत्मगतम्) किन्नुखलु मया वक्तव्यम् । यदि दीर्घायुर्भवेति वक्ष्ये दीर्घायुर्भविष्यति । यदि न वक्ष्ये, मूढ इति मां परिभवति। तस्मादुभयं परिहृत्य किन्नुखलु वक्ष्यामि । भवतु, दृष्टम् ।
(प्रकाशम्) भो कण्णं ! सुय्ये विअ चन्दे विअ, हिमवन्ते विअ, सागळे विअ, चिट्टदु दे जसो । [ भोः कर्न ! सूर्य इव, चन्द्र इव, हिमवानिव, सागर इव, तिष्ठतु ते यशः ।]
कर्णः -- भगवन् ! किं न वक्तव्यं दीर्घायुर्भवेति । अथवा एतदेव शोभनम् । कुतः,
धर्मो हि यत्नैः पुरुषेण साध्यो
भुजङ्गजिह्णाचपला नृपश्रियः ।
तस्मात् प्रजापालनमात्रबुद्ध्या
हतेषु देहेषु गुणा धरन्ते ॥ १७॥
भगवन् ! किमिच्छसि किमहं ददामि ।
शक्रः -- महत्तरं भिक्खं याचेमि । [महत्तरां भिक्षां याचे ।]
कर्णः -- महत्तरां भिक्षां भवते प्रदास्ये । श्रूयन्तां मद्विभवाः,
गुणवदमृतकल्पक्षीरधाराभिवर्षि
द्विजवर रुचितं ते तृप्तवत्सानुपातम् ।
तरुणमधिकमर्थिप्रार्थनीयं पवित्रं
विहितकनकशृङ्गं गोसहस्रं ददामि ॥ १८॥
शक्रः -- गोसहस्सं त्ति । मुहुत्तअं खिरं पिबामि । णेच्छमि कण्ण! णेच्छामि । [गोसहस्रमिति । मुहूर्तकं क्षीर पिबामि । नेच्छामि
कर्ण ! नेच्छामि ।]
कर्णः -- किं नेच्छति भगवान् । इदमपि श्रूयतां,
रवितुरगसमानं साधनं राजलक्ष्म्याः
सकलनृपतिमान्यं मान्यकाम्बोजजातम् ।
सुगुणमनिलवेगं युद्धदृष्टापदानं
सपदि बहुसहस्रं वाजिनां ते ददामि ॥ १९॥
शक्रः -- अस्स त्ति । मुहुतअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि ।
[अश्व इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ।]
कर्णः -- किं नेच्छति भगवान् । अन्यदपि श्रूयतां
मदसरितकपोलं षट्पदैः सेव्यमानं
गिरिवरनिचयाभं मेघगम्भीरघोषम् ।
सितनखदशनानां वारणानामनेकं
रिपुसमरविमर्दं वृन्दमेतद् ददामि ॥ २०॥
शक्रः -- गअ त्ति । मुहुत्तअं आळुहामि । णेच्छामि कण्ण ! णेच्छामि ।
[गज इति । मुहूर्तकमारोहामि । नेच्छामि कर्ण ! नेच्छामि ।]
कर्णः -- किं नेच्छति भगवान् । अन्यदपि श्रूयताम् । अपर्याप्तं कनकं ददामि ।
शक्रः -- गह्णिअ गच्छामि । (किञ्चिद् गत्वा) णेच्छामि कण्ण ! णेच्छामि। [गृहीत्वा गच्छामि । नेच्छामि कर्ण ! नेच्छामि ।]
कर्णः -- तेन हि जित्वा पृथिवीं ददामि ।
शक्रः -- पुहुवीए किं करिस्सम् । [पृथिव्या किं करिष्यामि ।]
कर्णः -- तेन ह्यग्निष्टोमफलं ददामि ।
शक्रः -- अग्गिट्टोमफळेण किं कय्यम् । [अग्निष्टोमफलेन किं कार्यम् ।]
कर्णः -- तेन हि मच्छिरो ददामि ।
शक्रः -- अविहा अविहा । [अविहा अविहा ।]
कर्णः -- न भेतव्यं न भेतव्यम् । प्रसीदतु भगवान् । अन्यदपि श्रूयताम् ।
अङ्गैः सहैव जनितं मम देहरक्षा
देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।
देयं तथापि कवचं सह कुण्डलाभ्यां
प्रीत्या मया भगवतो रुचितं यदि स्यात् ॥ २१॥
शक्रः -- (सहर्षम्) देदु देदु । [ददातु ददातु ।]
कर्णः -- (आत्मगतम्) एष एवास्य कमः । किन्नुखल्वनेककपटबुद्धेः कृष्णस्योपायः । सोऽपिच भवतु । धिगयुक्तमनुशोचितुम् । नास्ति संशयः । (प्रकाशम्) गृह्यताम् ।
शल्यः -- अङ्गराजः ! न दातव्यं न दातव्यम् ।
कर्णः -- शल्यराज ! अलमलं वारयितुम् । पश्य,
शिक्षा क्षयं गच्च्छति कालपर्ययात्
सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति
हुतं च दत्तं च तथैव तिष्ठति ॥ २२॥
तस्माद् गृह्यताम् । (निकृत्य ददाति)
शक्रः -- (गृहीत्वा आत्मगतम्) गृहीते एते । पूर्वमेवाहम् अर्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं, तदिदानीं मयानुष्ठितम्।तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोर्युद्धविशेषंपश्यामि ।
(निष्क्रान्तः)
शल्यः -- अङ्गराज ! वञ्चितः खलु भवान् ।
कर्णः -- केन ।
शल्यः -- शक्रेण ।
कर्णः -- न खलु । शक्रः खलु मया वञ्चितः । कुतः,
अनेकयज्ञाहुतितर्पितो द्विजैः
किरीटिमान् दानवसङ्घमर्दनः ।
सुरद्विपास्फालनकर्कशाङ्गुलिर्
मया कृतार्थः र्खलु पाकशासनः ॥ २३॥
(प्रविश्य ब्राह्मणरूपेण)
देवदूतः -- भोः कर्ण ! कवचकुण्डलग्रहणपश्चात्तापेन पुरन्दरेणानुगृहीतोऽसि । पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं गृह्यताम् ।
कर्णः -- धिग्, दत्तस्य न प्रतिगृह्णामि ।
देवदूतः -- ननु ब्राह्मणवचनाद् गृह्यताम् ।
कर्णः -- ब्राह्मणवचनमिति । न मयातिक्रान्तपूर्वम् । कदा लभेय
देवदूतः -- यदा स्मरसि तदा लभस्व ।
कर्णः -- बाढम् । अनुगृहीतोऽस्मि । प्रतिनिवर्ततां भवान् ।
देवदूतः -- बाढम् । (निष्क्रान्तः)
कर्णः -- शल्यराज ! यावद् रथमारोहावः ।
शल्यः -- बाढम् ।
(रथारोहणं नाटयतः)
कर्णः -- अये शब्द इव श्रूयते । किन्नुखल्विदम् ।
शङ्खध्वनिः प्रलयसागरघोषतुल्यः
कृष्णस्य वा न तु भवेत् स तु फल्गुनस्य ।
नूनं युधिष्ठिरपराजयकोपितात्मा
पार्थः करिष्यति यथाबलमद्य युद्धम् ॥ २४॥
शल्यराज ! यत्रासावर्जुनः तत्रैव चोद्यतां मम रथः ।
शल्यः -- बाढम् ।
(भरतवाक्यम्)
सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा ।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥ २५॥
(निष्क्रान्ताः)
कर्णभारमवसितम् ।
शुभं भूयात् ।