The site is under construction...
महाकाव्यम् इति किञ्चन काव्यस्य लक्षणम्। किं काव्यं महाकाव्यम् उच्यते इत्यस्य परिमाणाय एतस्य लक्षणस्य उपयोगो भवति। साहित्यदर्पणादयेषु अनेकेषु ग्रन्थेषु महाकाव्यस्य लक्षणानि वर्णितानि सन्ति।
महाकाव्येन अष्टाधिकसर्गेषु विभक्तेन भाव्यम् । अत्र हि एको नायकः सुरो वा क्षत्रियः, बहवो वा सद्वंशक्षत्रियाः भूपा नायकाः । नायकेन हि धीरोदात्तप्रकृतिकेन भाव्यम्, शृङ्गारवीरशान्तानामेकोऽङ्गी रसः, अन्ये रसा अंगान्येव, सर्वेऽपि नाटकसन्धयः, वृत्तं त्वैतिहासिकं वा तदितरदापि सज्जनाश्रयं, चतुर्णामेव वर्गाणां साधनं फलं तु तेष्वेक, आशीर्नमस्क्रियां वस्तुनिर्देशो वा प्रारम्भवाक्यं, सतां गुणसंकीर्तनं खलानां निन्दा च, प्रतिसर्गं हि भाविसर्गकथासंसूचकमवसानं, यथायोगं सन्ध्या-सूर्य-इन्दु-रजनी-प्रदोष-ध्वान्त-वासर-प्रातर्मध्याह्नमृगयाशैलः तु वन-सागर-सम्भोग-विप्रलम्भ-मुनि-स्वर्ग-पुराध्वररणप्रयाणोपयममन्त्रपुत्रोदयादयः साङ्गोपाङ्गं वर्णनीयाः । अस्य नाम वृत्तस्य कवेर्नायकस्य वा नाम्ना नाम, सर्गनाम तु सर्गोपादेयकथयैव । एतादृशलक्षणलक्षितं हि महाकाव्यं सौभाग्याय भवति।
संस्कृतसाहित्यजगति महाकाव्यस्य विकासः कदाप्रभृत्यभूदिति तु न पार्यते निश्चयेन वक्तुम् । एतावदेव निश्चितं यद् वाल्मीकिः हि लौकिकसंस्कृतसाहित्यस्य आदिकविः आदिकाव्यञ्च तस्य रामायणम् । अत्र हि सप्त काण्डानि प्रतिकाण्डञ्च सर्गाः । अत्र हि नायको धीरोदात्तगुणान्वितः सद्वंशक्षत्रियो रामः । अत्र हि वीरो मुख्यो रसः शृङ्गारादयश्चान्येऽङ्गानि फलश्चास्य धर्मः । वस्तुनिर्देश एवास्य प्रारम्भवाक्यं यथा -
"कोशलो नाम मुदितः स्फीतो जनपदो महान्।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ॥"
आदिमहाकाव्यमिदं -
"धर्म्यं यशस्यमायुष्य राज्ञाञ्च विजयावहम्।
आदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम्॥" इति ।।
धर्मो यथा -
"सामं दानं क्षमा धर्मः सत्यं धृतिपराक्रमौ ।
पार्थिवानां गुणा राजन् दण्डश्चाप्यपकारिषु।।"
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः।।
नास्तिकः परिवेत्ता च सर्वे निरयगामिनः।।
अर्थों यथा - भूमिहिरण्यं रूपञ्च विग्रहे कारणानि च।
कामो यथा - ततः पर्वतशृङ्गाणि वनानि विविधानि च ।
पश्यन् सह मया कामी दण्डवान् विचरिष्यसि।।
ऋतुवर्णनं यथा हेमन्तस्य -
वसतस्तस्य तु सुखं राघवस्य महात्मनः।
शरद्व्ययाये हेमन्त ऋतुरिष्टः प्रवर्तते।।
अयं स कालः सम्प्राप्तः प्रियो यस्ते प्रियंवद।
अलङ्कृत इवाभाति येन संवत्सरः शुभः।।
नीहारपरुषो लोकः पृथिवी सस्यमालिनी।
जलान्यनुपयोग्यानि सुभगो हव्यवाहनः ।।
सेवमाने दिशं सूर्ये दिशमन्तकसेविताम्।
विहीनतिलकेव स्त्री नोत्तरा दिक् प्रकाशते।।
प्रकृत्या हिम शाढ्यो दूरसूर्यश्च साम्प्रतम्।
यथार्थनामा सुव्यक्तं हिमवान् हिमवान् गिरिः।।
रविसङ्क्रान्तसौभाग्यस्तुषारारुणमण्डलः।
निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ।।
अवश्यायतमीनद्धा नीहारतमसावृताः।
प्रसुप्ता इव लक्ष्यन्ते विपुष्पा वनराजयः।।
यद्यपि महाभारतेऽपि काव्यात्मकत्वं विलसत्येव तथापि न तथा तत्र काव्यलक्षणं घटते यथा रामायणे । तत्र हि बहवो नायकाः, वस्तुनिर्देश एव प्रारम्भवाक्यं वीरो हि मुख्यो रसो जये शान्तो महाभारते । फलञ्चास्य धर्म एव । अत्र हि पूर्वभागे युधिष्ठिराभिषेकान्ता कथा वीररसप्रधाना, उत्तरभागं समावेश्य तु शान्तरसस्य प्राधान्यम् । रामायणेऽपि पूर्वकाण्डपर्यन्ता कथा वीररसप्रधाना उत्तरकाण्डं समावेश्य तु करुणरसस्य प्राधान्यम् ।
संस्कृतजगतः महाकाव्येषु महाभारतानन्तरं जाम्बवतीविनयं समुदेति । इदं उच्यते यत्, संस्कृतकाव्यस्य उदयस्तु प्रशान्तपावने तपोवनेऽजायत, किन्तु तस्य विकासो हि राज्ञां प्रासादेष्वेव समभवदुपरतञ्च तद्राजप्रासादानां विनाशेन सहैव इति। कथ्यते हि पाणिनेः उदयाय प्रद्योतस्य नन्दिवर्द्धनस्य, वररुचेरुदये प्रद्योतस्यैव नन्दिनः, पतञ्जलेरुदयाय शुङ्गस्य पुष्यमित्रस्य, भासस्योदये राजसिंहस्य, कालिदासस्योत्कर्षाय विक्रमस्य, अश्वघोषोदये कनिकस्य, भारवेरुत्कर्षाय पुलकेशिद्वितीयस्य विष्णुवर्द्धनस्य, भट्टरुत्कर्षाय श्रीधरनरेन्द्रस्य, बाणस्योदये हर्षवर्द्धनस्य, माघस्योदयाय भोजाख्यस्य कस्यचिद् गुर्जरेश्वरस्य, रत्नाकरस्यावस्थानेऽवन्तिवर्मणः काश्मीरकस्य, श्रीहर्षस्योदये जयचन्द्रस्य कान्यकुब्जेश्वरस्य, विह्लणस्योदये चालुक्यस्य विक्रमादित्यस्य, जगन्नाथोदयाय शाहजहानस्य भूमिका दरीदृश्यते। वस्तुतस्तु कवयो हि द्विविधोद्देश्यपूर्तये राज्ञ आश्रयन्ते स्म । प्रथमं तु तेषां राजाश्रयेणाजीविकासमस्या समाहिता भवति स्म । अपरञ्च, तत्र तेषां ग्रन्थपरीक्षका अपि सुलभा भवन्ति स्म । यथा स्मरति राजशेखरः “श्रूयते हि पाटलिपुत्रे शास्त्रकारपरीक्षा" इति। राजप्रासादाश्रिता अपि कवयो न केवलं राजप्रशस्तीरेव जानन्ति स्मार्पयतु तृणकुटीरेऽपि तेषां दृष्टिः शश्वदेव जागरिता भवति स्म । तत्र हि एकतः -
'प्रासादवातायनसंश्रितानां नेत्रोत्सवं पुष्पपुराङ्गनानाम्।'
इत्युच्यते तथैवापरतः -
'आरण्यकोपात्तफलप्रसूतिस्तम्बेन नीवार इवावशिष्टः।' इत्यपि संस्मर्यते।
ते हि आदर्शमुपस्थापयितुं वाञ्छन्ति स्म । तेन हि नृपस्तु तत्साधनत्वेनैव ते वर्णयन्ति स्म । यदि तादृश आदर्शोऽन्यत्रापि सम्भवति चेत्तानपि ते गृह्णन्ति स्म एव । यथा मेघदूते हि सामान्यपक्षो नायकरूपेण वर्णितोऽस्ति । तथैव मृच्छकटिकं हि दरिद्रविप्रस्य चारुदत्तस्य जीवनवृत्तस्यैकदेश एव । तेन हि संस्कृतकाव्यमुच्चवर्गस्यैव जीवनदर्पण इति यदुच्यते तदसारमेव । यथा च -
लघुनि तृणकुटीरे क्षेत्रकोणे यवानां नवकलमपलालप्रस्तरे सोपधाने।
परिहरति सुषुप्तं हालिकाद्वन्द्वमारात्कुचकलशमहोष्माबद्धरेखस्तुषारः॥
प्रहरकमपनीय स्वं निदिद्रसितोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति।
मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुध्यते नो मनुष्यः।।
वासः खण्डमिदं प्रयच्छ यदि वा स्वाङ्के गृहाणार्भकं
रिक्तं भूतलमत्र नाथ भवतः पृष्ठे पलालोच्चयः।
दम्पत्योरिति जल्पितं निशि यदा चौरः प्रविष्टस्तदा
लब्धं कर्पटमन्यतस्तदुपरि क्षिप्त्वा रुदन्निर्गतः॥
संस्कृतकाव्ये पाण्डित्यप्रदर्शनापेक्षया रसबन्धस्यैवाध्यवसायो बहुधा प्रवर्तितो दृश्यते । यद्यपि कालिदासापरवर्तिनो हि कवयो ज्ञानगरिमाणमपि स्वकाव्यविषयत्वेन ग्रथ्नन्ति स्म, तथापि तत्रापि रसापेक्षा तु नैव कथमपि क्षीणा वोपेक्षिता दृश्यते । नैषधीयचरिते ज्ञानगरिमा सर्वातिशायित्वेनान्तर्लीनो दृश्यते, तथापि तत्र रसपेशलता सर्वत्र विलसत्येव । न केवलं काव्यसामान्य एवापितु शास्त्रकाव्येष्वपि येषां हि प्रधानमुद्देश्यं व्याकरणशिक्षणमेव भवति रसपेशलतापेक्षितैव दृश्यते ।
सामान्यतः शृङ्गारवीरकरुणशान्तेष्वन्यतम एव रसः काव्यस्याङ्गित्वेन स्वीकृतोऽन्ये तु अङ्गरूपमात्रमेव । तत्रापि महाकाव्ये प्रायो वीरो वा शान्त एव सम्मतः।