The site is under construction...
अथेति। अथ निशानयनानन्तरं यशोधनः प्रजानामधिपः प्रजेश्वरः प्रभाते प्रातःकाले जायया सुदक्षिणया प्रतिग्राहयित्र्या प्रतिग्राहिते स्वीकारिते गन्धमाल्ये यया सा जायाप्रतिग्राहितगन्धमाल्या, तां तथोक्ताम्। पीतं पानमस्यास्तीति पीतः पीतवानित्यर्थः। "अर्थ आदिभ्योऽच्" इत्यच्प्रत्ययः। "पीता गावो भुक्ता ब्राह्मणाः" इति महाभाष्ये दर्शनात्। पीतः प्रतिबद्धो वत्सो यस्यास्तामृषेर्धेनुं वनाय वनं गन्तम्। "क्रियार्थोपपदस्य च कर्मणि स्थानिनः" इत्यनेन चतुर्थी। मुमोच मुक्तवान्। जायापदसामर्थ्यात्सुदक्षिणायाः पुत्रजननयोग्यत्वमनुसन्धेयम्। तथा हि श्रुतिः - पतिर्जायां प्रविशति गर्भो भूत्वेह मातरम्। तस्यां पुनर्नवो भूत्वा दशमे मासि जायते। तज्जाया जाया भवति यदस्यां जायते पुनः ॥ इति ॥ यशोधन इत्यनेन पुत्रवत्ताकीर्तिलोभाद्राजानर्हे गोरक्षणे प्रवृत्त इति गम्यते॥ १ ॥
तस्या इति। पांसवो दोषा आसां सन्तीति पांसुलाः स्वैरिण्यः। स्वैरिणीपांसुला इत्यमरः। सिध्मादिभ्यश्च इति लच्प्रत्ययः। अपांसुलानां पतिव्रतानां धुर्यग्रे कीर्त्तनीया परिगणनीया। मनुष्येश्वरधर्मपत्नी। खुरन्यासैः पवित्राः पांसवो यस्य तम्। "रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः" इत्यमरः। तस्या धेनोर्मार्गम्। स्मृतिर्मन्वादिवाक्यं श्रुतेर्वेदवाक्यस्यार्थमभिधेयमिव अन्वगच्छदनुसृतवती च। यथा स्मृतिः श्रुतिक्षुण्णमेवार्थमनुसरति तथा सोऽपि गोखुरक्षुण्णमेव मार्गमनुससारेत्यर्थः। धर्मपत्नीत्यत्राश्वघासादिवत्तादर्थ्ये षष्ठीसमासः प्रकृतिविकाराभावात्। पांसुलपथवत्तावप्यपांसुलानामिति विरोधालङ्कारो ध्वन्यते ॥ २ ॥
निवर्त्त्येति। दयालुः कारुणिकः। "स्याद्दयालुः कारुणिकः" इत्यमरः। स्पृहिगृहि - इत्यादिनाऽऽलुच्प्रत्ययः। यशोभिः सुरभिर्मनोज्ञः। सुरभिः स्यान्मनोज्ञेऽपि इति विश्वः। राजा तां दयितां निवर्त्त्य सौरभेयीं कामधेनुसुतां नन्दिनीम्। धरन्तीति धराः। पचाद्यच्। पयसां धराः परोधराः स्तनाः। स्त्रीस्तनाब्दौ पयोधरौ इत्यमरः। अपयोधराः पयोधराः सम्पद्यमानां पयोधरीभूताः। अभूततद्भावे च्विः। कुगतिप्रादयः इति समासः। पयोधरीभूताश्चत्वारः समुद्रा यस्यास्ताम्। अनेकमन्यपदार्थे इत्यनेकपदार्थग्रहणसामर्थ्यात्त्रिपदो बहुव्रीहिः। गोरूपधरामुर्वीमिव जुगोप ररक्ष। भूरक्षणप्रयत्नेनेव ररक्षेति भावः। धेनुपक्षे - पयसा दुग्धेनाधारीभूताश्चत्वारः समुद्रा यस्याः सा तथोक्ताम्। दुग्धतिरस्कृतसारामित्यर्थः ॥ ३ ॥