The site is under construction...
आदौ मङ्गलाचरणं।। 1 ।।
नैमिशारण्ये दीर्घसत्रे शौनकादीन्प्रति सौतेरागमनम्।। 2 ।।
तत्र शौनकादिभिः सौतिं प्रति भारतकथनचोदना।। 3 ।।
सौतिना श्रीमन्नारायणनमस्कारपूर्वकं व्यासस्य भारतनिर्माणकथनम्।। 4 ।।
पर्वानुक्रमणिका।। 5 ।।
।। श्रीवेदव्यासाय नमः।।
1-1-1x
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं चैव(व्यासं) ततो जयमुदीरयेत् ।।
1-1-1a
1-1-1b
`नारायणं सुरगुरुं जगदेकनाथं'
भक्तप्रियं सकललोकनमस्कृतं च।
त्रैगुण्यवर्जितमजं विभुमाद्यमीशं
वन्दे भवघ्नममरासुरसिद्धवन्द्यम्'।।
1-1-2a
1-1-2b
1-1-2c
1-1-2d
`नमो धर्माय महते नमः कृष्णाय वेधसे।
ब्राह्मणेभ्यो नमस्कृत्य धर्मान्वक्ष्यामि शाश्वतान्'।।
1-1-3a
1-1-3b
ॐ नमो भगवते वासुदेवाय।
ॐ नमः पितामहाय। ॐ नमः प्रजापतिभ्यः।
ॐ नमः कृष्णद्वैपायनाय।
ॐ नमः सर्वविघ्नविनायकेभ्यः।।
1-1-4a
1-1-4b
1-1-4c
1-1-4d
रोमहर्षणपुत्र उग्रश्रवाः सौतिः पौराणिको
नैमिशारण्ये शौनकस्य कुलपतेर्द्वादशवार्षिके सत्रे
1-1-5a
1-1-5b
सुखासीनानभ्यगच्छद्ब्रह्मर्षीन्संशितव्रतान्।
विनयावनतो भूत्वा कदाचित्सूतनन्दनः।।
1-1-6a
1-1-6b
तमाश्रममनुप्राप्य नैमिशारण्यवासिनः।
`उवाच तानृषीन्सर्वान्धन्यो वोऽस्म्यद्यदर्शनात्
1-1-7a
1-1-7b
वेद वैयासिकीः सर्वाः कथा धर्मार्यैसंहिताः।
वक्ष्यामि वो द्विजश्रेष्ठाः शृण्वन्त्वद्य तपोधनाः
1-1-8a
1-1-8b
तस्य तद्वचनं श्रुत्वा नैमिशारण्यवासिनः।
चित्रा श्रोतुं कथास्तत्र परिव्रुस्तपस्विनः।।
1-1-9a
1-1-9b
अभिवाद्य मुनींस्तांस्तु सर्वानेव कुताञ्जलिः।
अपृच्छत्स तपोवृद्धिं सद्भिश्चैवाभिपूजितः।।
1-1-10a
1-1-10b
अथ तेषूपविष्टेषु सर्वेष्वेव तपस्विषु।
निर्दिष्टमासनं भेजे विनयाद्रौमहर्षणिः।।
1-1-11a
1-1-11b
सुखासीनं ततस्तं तु विश्रान्तमुपलक्ष्य च।
अथापृच्छदृषिस्तत्र कश्चित्प्रस्तावयन्कथाः।।
1-1-12a
1-1-12b
कुत आगम्यते सौते क्वचायं विहृतस्त्वया।
कालः कमलपत्राक्ष शंसैतत्पृच्छतो मम।।
1-1-13a
1-1-13b
एवं पृष्टोऽब्रवीत्सम्यग्यथावद्रौमहर्षणिः।
वाक्यं वचनसंपन्नस्तेषां च चरिताश्रयम्।।
1-1-14a
1-1-14b
तस्मिन्सदसि विस्तीर्णे मुनीनां भावितात्मनाम्।
1-1-15a
सौतिरुवाच।
1-1-15x
जनमेजयस्य राजर्षेः सर्पसत्रे महात्मनः।।
1-1-15b
समीपे पार्थिवेन्द्रस्य सम्यक्पारिक्षितस्य च।
कृष्णद्वैपायनप्रोक्ताः सुपुण्या विविधाः कथाः
1-1-16a
1-1-16b
कथिताश्चापि विधिवद्या वैशंपायनेन वै।
श्रुत्वाऽहं ता विचित्रार्था महाभारतसंश्रिताः।।
1-1-17a
1-1-17b
वहूनि संपरिक्रम्य तीर्थान्यायतनानि च।
समन्तपञ्चकं नाम पुण्यं द्विजनिषेवितम्।।
1-1-18a
1-1-18b
गतवानस्मि तं देशं युद्धं यत्राभवत्पुरा।
कुरूणां पाण्डवानां च सर्वेषां चहीक्षिताम्।।
1-1-19a
1-1-19b
दिदृक्षुंरागतस्तस्मात्समीपं भावतामिह।
आयुष्मन्तः सर्व एव ब्रह्मभाता हि मे मताः।।
अस्मिन्यज्ञे महाभङ्गाः सूर्यपावकवर्चसः।।
1-1-20a
1-1-20b
1-1-20c
कृताभिषेकाः शुचयः कृतजप्या हुताग्नयः।
भवन्त आसते स्वस्था ब्रवीमि किमहं द्विजाः
1-1-21a
1-1-21b
पुराणसंहिताः पुण्याः कथा धर्मार्थसंश्रिताः।
इतिवृत्तं नरेन्द्राणामृषीणां च महात्मनाम्।।
1-1-22a
1-1-22b
ऋषय ऊचुः।
1-1-23x
द्वैपायनेन यत्प्रोक्तं पुराणं परमर्षिणा।
सुरैर्ब्रह्मर्षिभिश्चैव श्रुत्वा यदभिपूजितम्।।
1-1-23a
1-1-23b
तस्याख्यानवरिष्ठस्य विचित्रपदपर्वणः।
सूक्ष्मार्थन्याययुक्तस्य वेदार्थैर्भूषितस्य च।।
1-1-24a
1-1-24b
भारतस्येतिहासस्य पुण्यां ग्रन्थार्थसंयुताम्।
संस्कारोपगतां ब्राह्मीं नानाशास्त्रोपबृंहिताम्।।
1-1-25a
1-1-25b
जनमेजयस्य यां राज्ञो वैशंपायन उक्तवान्।
यथावत्स ऋषिः पृष्टः सत्रे द्वैपायनाज्ञया।।
1-1-26a
1-1-26b
वेदैश्चतुर्भिः सयुक्तां व्यासस्याद्भुतकर्मणः।
संहितां श्रोतुमिच्छामः पुण्यां पापभयापहाम्।।
1-1-27a
1-1-27b
सौतिरुवाच।
1-1-28x
आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम्।
ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्।।
1-1-28a
1-1-28b
असच्च सच्चैव च यद्विश्वं सदसतः परम्
परावराणां स्रष्टारं पुराणं परमव्ययम्।।
1-1-29a
1-1-29b
मङ्गल्यं मङ्गलं विष्णुं वरेण्यमनघं शुचिम्।
नमस्कृत्य हृषीकेशं चराचरगुरुं हरिम्।।
1-1-30a
1-1-30b
महर्षेः पूजितस्येह सर्वलोकैर्महात्मनः।
प्रवक्ष्यामि मतं पुण्यं व्यासस्याद्भुतकर्मणः।।
1-1-31a
1-1-31b
`नमो भगवते तस्मै व्यासायामिततेजसे।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम्।।
1-1-32a
1-1-32b
सर्वाश्रमाभिशमनं सर्वतीर्थावगाहनम्।
न तथा फलद सूते नारायणकथा यथा।।
1-1-33a
1-1-33b
नास्ति नारायणसमं न भूतं न भविष्यति।
एतेन सत्यवाक्येन सर्वार्थान्साधयाम्यहम्'।।
1-1-34a
1-1-34b
आचख्युः कवयः केचित्संप्रत्याचक्षते परे।
आख्यास्यन्ति तथैवान्य इतिहासमिमं भुवि।।
1-1-35a
1-1-35b
इदं तु त्रिषु लोकेषु महज्ज्ञानं प्रतिष्ठितम्।
विस्तरैश्च समासैश्च धार्यते यद्द्विजातिभिः।।
1-1-36a
1-1-36b
अलङ्कृतं शुभैः शब्दैः समयैर्दिव्यधनुषैः।
छन्दोवृत्तैश्च विविधैरन्वितं विदुषांप्रियम्।।
1-1-37a
1-1-37b
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।
इतिहासमिमं चक्रे पुण्यं सत्यवतीसुतः।।
1-1-38a
1-1-38b
`पुण्ये हिमवतः पादे मेध्ये गिरिगुहालये।
विशोध्य देहं धर्मात्मा दर्भसंस्तरमाश्रितः।।
1-1-39a
1-1-39b
शुचिः सनियमो व्यासः शान्तात्मातपसि स्थितः
भारतस्येतिहासस्य धर्मेणान्वीक्ष्य तां गतिम्।।
1-1-40a
1-1-40b
प्रविश्य योगं ज्ञानेन सोऽपश्यत्सर्वमन्ततः।।
1-1-41a
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसा वृते।
बृहदण्डमभूदेकं प्रजानां बीजमव्ययम्।।
1-1-42a
1-1-42b
युगस्यादिनिमित्तं तन्महद्दिव्यं प्रचक्षत।
व्यस्मिंस्तच्छ्रूयते सत्यंज्योतिर्ब्रह्म सनातनम्।।
1-1-43a
1-1-43b
अद्भुतं चाप्यचिन्त्यं च सर्वत्र समतां मतम्।
अव्यक्तं कारणं सूक्ष्मं यत्तत्सदसदात्मकम्।।
1-1-44a
1-1-44b
यस्मिन्पितामहो जज्ञे प्रभुरेकः प्रजापतिः।
ब्रह्मा सुरगुरुः स्थाणुर्मनुः कः परमेष्ठ्यथ।।
1-1-45a
1-1-45b
प्राचेतसस्तथा दक्षो दक्षपुत्राश्च सप्तवै।
ततः प्रजानां पतयः प्राभवन्नेकविंशतिः।।
1-1-46a
1-1-46b
पुरुषश्चाप्रमेयात्मा यं सर्वऋषयो विदु।
विश्वेदेवास्तथाऽऽदित्या वसवोऽथाश्विनावपि।।
1-1-47a
1-1-47b
यक्षाः साध्याः पिशाचाश्च गुह्यकाः पितरस्तथा।
ततः प्रसूता विद्वांसः शिष्टा ब्रह्मर्षिसत्तमाः।।
1-1-48a
1-1-48b
महर्षयश्च बहवः सर्वैः समुदिता गुणैः।
आतो द्यौः पृथिवी वायुरन्तरिक्षं दिशस्तया।।
1-1-49a
1-1-49b
संवत्सरर्तवो मासाः पक्षाहोरात्रयः क्रमात्।
यच्चान्यदपि तत्सर्वं संभूतं लोकसाक्षिकम्।।
1-1-50a
1-1-50b
यदिदं दृश्यते किंचिद्बूतं स्थावरजङ्गमम्।
पुनःसंक्षिप्यते सर्वं जगत्प्राप्ते युगक्षये।।
1-1-51a
1-1-51b
यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये।
दृश्यन्ते तानि तान्येव तथा भावा युगादिषु।।
1-1-52a
1-1-52b
एवमेतदनाद्यन्तं भूतसंघातकारकम्।
अनादिनिधनं लोके चक्रं संपरिवर्तते।।
1-1-53a
1-1-53b
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च।
त्रयस्त्रिंशच्च देवनां सृष्टिः संक्षेपलक्षणा।।
1-1-54a
1-1-54b
दिवः पुत्रो बृहद्भानुश्चक्षुरात्मा विभावसुः।
सविता स ऋचीकोऽर्को भानुराशावहो रविः।।
1-1-55a
1-1-55b
पुत्रा विवस्वतः सर्वे मनुस्तेषां तथाऽवरः।
देवभ्राट् तनयस्तस्य सुभ्राडिति ततः स्मृतः।।
1-1-56a
1-1-56b
सुभ्राजस्तु त्रयः पुत्राः प्रजावन्तो बहुश्रुताः।
दशज्योतिः शतज्योतिः सहस्रज्योतिरेव च।।
1-1-57a
1-1-57b
दशपुत्रसहस्राणि दशज्योतेर्महात्मनः।
ततो दशगुणाश्चान्ये शतज्योतेरिहात्मजाः।।
1-1-58a
1-1-58b
भूयस्ततो दशगुणाः सहस्रज्योतिषः सुताः।
तेभ्योऽयं कुरुवंशश्च यदूनां भरतस्य च।।
1-1-59a
1-1-59b
ययातीक्ष्वाकृवंशश्च राजर्षीणां च सर्वशः।
संभूता बहवो वंशा भूतसर्गाः सुविस्तराः।।
1-1-60a
1-1-60b
भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत्।
वेदा योगः सविज्ञानो धर्मोऽर्थः काम एव च।।
1-1-61a
1-1-61b
धर्मार्थकामयुक्तानि शास्त्राणि विविधानि च।
लोकयात्राविधान च सर्व तद्दृष्टवानृषिः।।
1-1-62a
1-1-62b
`नीतिर्भरतवंशस्य विस्तारश्चैव सर्वशः।'
इतिहासाः सहव्याख्या विविधाश्रुतयोऽपि च।।
1-1-63a
1-1-63b
इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम्।
`संक्षेपेणेतिहासस्य ततो वक्ष्यति विस्तरम्।।'
1-1-64a
1-1-64b
विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत्।
इष्टं हि विदुषां लोके समासव्यासधारणम्।।
1-1-65a
1-1-65b
मन्वादि भारतं केचिदास्तीकादि तथाऽपरे।
तथोपरिचराद्यन्ये विप्राः सम्यगधीयिरे।।
1-1-66a
1-1-66b
विविधं संहिताज्ञानं दीपयन्ति मनीषिणः।
व्याख्यातुं कुशलाः केचिद्ग्रन्थान्धारयितुं परे।।
1-1-67a
1-1-67b
तपसा ब्रह्मचर्येण व्यस्य वेदं सनातनम्।
इतिहासमिमं चक्रे पुण्यं सत्यवतीत्सुतः।।
1-1-68a
1-1-68b
पराशरात्मजो विद्वान्ब्रह्मर्षिः संशितव्रतः।
मातुर्नियोगाद्धर्मात्मा गाङ्गेयस्य च धीमतः।।
1-1-69a
1-1-69b
क्षेत्रे विचित्रवीर्यस्य कृष्णद्वैपायनः पुरा।
त्रीनग्नीनिव कौरव्याञ्जनयामास वीर्यवान्।।
1-1-70a
1-1-70b
उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च।
जगाम तपसे धीमान्पुनरेवाश्रमं प्रति।।
1-1-71a
1-1-71b
तेषु जातेषु वृद्धेषु गतेषु परमां गतिम्।
अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः।।
1-1-72a
1-1-72b
जनमेजयेन पृष्टः सन्ब्राह्मणैश्च सहस्रशः।
शशास शिष्यमासीनं वैशंपायनमन्तिके।।
1-1-73a
1-1-73b
स सदस्यैः सहासीनं श्रावयामास भारतम्।
कर्मान्तरेषु यज्ञस्य चोद्यमानः पुनः पुनः।।
1-1-74a
1-1-74b
विस्तारं कुरुवंशस्य गान्धार्या धर्मशीलताम्।
क्षत्तुः प्रज्ञां धृतिं कुन्त्याः सम्यग्द्वैपायनोब्रवीत्।।
1-1-75a
1-1-75b
वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्।
दुर्वृत्तं धार्तराष्ट्राणामुक्तवान्भगवानृषिः।।
1-1-76a
1-1-76b
इदं शतसहस्रं तु श्लोकानां पुण्यकर्मणाम्।
उपाख्यानैः सह ज्ञेयं श्राव्यं भारतमुत्तमम्।।
1-1-77a
1-1-77b
चतुर्विंशतिसाहस्रीं चक्रे भारतसंहिताम्।
उपाख्यानैर्विना तावद्भारतं प्रोच्यते बुधैः।।
1-1-78a
1-1-78b
ततोऽध्यर्धशतं भूयः संक्षेपं कृतवानृषिः।
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्।।
1-1-79a
1-1-79b
तस्याख्यानवरिष्ठस्य कृत्वा द्वैपायनः प्रभुः।
कथमध्यापयानीह शिष्यानित्यन्वचिन्तयत्।।
1-1-80a
1-1-80b
तस्य तच्चिन्तितं ज्ञात्वा ऋषेर्द्वैपायनस्य च।
तत्राजगाम भगवान्ब्रह्मा लोकगुरुः स्वयम्।।
1-1-81a
1-1-81b
प्रीत्यर्थं तस्य चैवर्षेर्लोकानां हितकाम्यया।
तं दृष्ट्वा विस्मितो भूत्वा प्राञ्जलिः प्रणतः स्थितः।।
1-1-82a
1-1-82b
आसनं कल्पयामास सर्वैर्मुनिगणैर्वृतः।।
1-1-83a
हिरण्यमर्भमासीनं तस्मिंस्तु परमासने।
परिवृत्यासनभ्याशे वासवेयः स्थितोऽभवत्।।
1-1-84a
1-1-84b
अनुज्ञातोऽथ कृष्णस्तु ब्रह्मणा परमेष्ठिना।
निषसादासनाभ्याशे प्रीयमाणः शुचिस्मितः।।
1-1-85a
1-1-85b
उवाच स महातेजा ब्रह्माणं परमेष्ठिनम्।
कृतं मयेदं भगवन्काव्यं परमपूजितम्।।
1-1-86a
1-1-86b
ब्रह्मन्वेदरहस्य च यच्चान्यत्स्थापितं मया।
साङ्गोपनिषदां चैव वेदानां विस्तरक्रिया।।
1-1-87a
1-1-87b
इतिहासपुरापानामुन्मेषं निमिषं च यत्।
भूतं भव्यं भविष्यच्च त्रिविधं कालसंज्ञितम्।।
1-1-88a
1-1-88b
जरामृत्युभयव्याधिभावाभावविनिश्चयः।
विविधस्य च धर्मस्य ह्याश्रमाणां च लक्षणम्।।
1-1-89a
1-1-89b
चातुर्वर्ण्यविधानं च पुराणानां च कृत्स्नशः।
तपसो ब्रह्मचर्यस्य पृथिव्याश्चन्द्रसूर्ययोः।।
1-1-90a
1-1-90b
ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह।
ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च।।
1-1-91a
1-1-91b
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा।
इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम्।।
1-1-92a
1-1-92b
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्।
नदीनां पर्वतानां च वनानां सागरस्य च।।
1-1-93a
1-1-93b
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्।
वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः।।
1-1-94a
1-1-94b
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्।
परं न लेखकः कश्चिदेतस्य भुवि विद्यते।।
1-1-95a
1-1-95b
ब्रह्मोवाच।
1-1-96x
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात्।
मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्।।
1-1-96a
1-1-96b
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्।
त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति।।
1-1-97a
1-1-97b
अस्य काव्यस्य कवयो न समर्था विशेषणे।
विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः।।
1-1-98a
1-1-98b
`जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत्।
यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत्।।
1-1-99a
1-1-99b
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः।
ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः'।।
1-1-100a
1-1-100b
त्वया भारतसूर्येण नृणां विनिहतं तमः।।
1-1-101a
1-1-101b
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना।
नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम्।।
1-1-102a
1-1-102b
इतिहासप्रदीपेन मोहावरणघातिना।
लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्।।
1-1-103a
1-1-103b
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्।
संभवस्कन्धविस्तारः सभापर्वविटङ्कवान्।।
1-1-104a
1-1-104b
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान्।
भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्।।
1-1-105a
1-1-105b
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः।
स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः।।
1-1-106a
1-1-106b
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः।
मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः।।
1-1-107a
1-1-107b
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति।
पर्जन्यइव भूतानामक्षयो भारद्रुमः।।
1-1-108a
1-1-108b
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने।
1-1-109a
सौतिरुवाच।
1-1-110x
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्।
भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह।।
1-1-110a
1-1-110b
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः।।
1-1-111a
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः।
तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः।।
1-1-112a
1-1-112b
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ।
लेखको भारतस्यास्य भव त्वं गणनायक।।
मयैव प्रोच्यमानस्य मनसा कल्पितस्य च।।
1-1-113a
1-1-113b
1-1-113c
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्।
लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्।।
1-1-114a
1-1-114b
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्।
ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः।।
1-1-115a
1-1-115b
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्।
यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्।।
1-1-116a
1-1-116b
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च।
अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा।।
1-1-117a
1-1-117b
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने।
भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च।।
1-1-118a
1-1-118b
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्।
तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि।।
1-1-119a
1-1-119b
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम्।
स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि।।
1-1-120a
1-1-120b
अनुक्रमणिकाध्यायं वृत्तान्तं सर्वपर्वणाम्।
इदं द्वैपायनः पूर्वं पुत्रमध्यापयच्छुकम्।।
1-1-121a
1-1-121b
ततोऽन्येभ्योऽनुरूपेभ्यः शिष्येभ्यः प्रददौ प्रभु
षष्टिं शतसहस्राणि चकारान्यां स संहिताम्।
त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम्।।
1-1-122a
1-1-122b
1-1-122c
पित्र्ये पञ्चदश प्रोक्तं रक्षोयक्षे चतुर्दश।
एकं शतसहस्रं तु मानुषेषु प्रतिष्ठितम्।।
1-1-123a
1-1-123b
नारदोऽश्रावयद्देवानसितो देवलः पितृन्।
गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः।।
1-1-124a
1-1-124b
`वैशंपायनविप्रर्षिः श्रावयामास पार्थिवम्।
पारिक्षितं महात्मानं नाम्ना तु जनमेजयम्'।।
1-1-125a
1-1-125b
अस्मिंस्तु मानुषे लोके वैशंपायन उक्तवान्।
शिष्यो व्यासस्य धर्मात्मा सर्ववेदविदां वरः।।
1-1-126a
1-1-126b
एकं शतसहस्रं तु मयोक्तं वै निबोधत।।
1-1-127a
दुर्योधनो मन्युमयो महाद्रुमः
कर्णः स्कन्धः शकुनिस्तस्य शाखाः।
दुश्शासनः पुष्पफले समृद्धे
मूलं राजा धृतराष्ट्रोऽमनीषि।
1-1-128a
1-1-128b
1-1-128c
1-1-128d
युधिष्ठिरे धर्ममयो महाद्रुमः
स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः।
माद्रीसुतौ पुष्पफले समृद्धे
मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च।।
1-1-129a
1-1-129b
1-1-129c
1-1-129d
पाण्डुर्जित्वा बहून्देशान्युधा विक्रमणेन च।
अरण्ये मृगयाशीलो न्यवसत्सजनस्तथा।।
1-1-130a
1-1-130b
मृगव्यवायनिधनात्कृच्छ्रां प्राप स आपदम्।
जन्मप्रभृति पार्थानां तत्राचारविधिक्रमः।।
1-1-131a
1-1-131b
मात्रोरभ्युपपत्तिश्च धर्मोपनिषदं प्रति।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया।।
1-1-132a
1-1-132b
`ततो धर्मोपनिषदं भूत्वा भर्तुः प्रिया पृथा।
धर्मानिलेन्द्रांस्ताभिः साऽऽजुहाव सुतवाञ्छया।।
1-1-133a
1-1-133b
तद्दत्तोपनिषन्माद्री चाश्विनावाजुहाव च।
जाताः पार्थास्ततः सर्वे कुन्त्या माद्र्याश्च मन्त्रतः।'
तापसैः सह संवृद्धा मातृभ्यां परिरक्षिताः।।
1-1-134a
1-1-134b
1-1-134c
मेध्यारण्येषु पुण्येषु महतामाश्रमेषु च।
`तेषु जातेषु सर्वेषु पाण्डवेषु महात्मसु।।
1-1-135a
1-1-135b
माद्र्या तु सह संगम्य ऋषिशापप्रभावतः।
मृतः पाण्डुर्महापुण्ये शतशृङ्गे महागिरौ।।'
1-1-136a
1-1-136b
ऋषिभिश्च समानीता धार्तराष्ट्रान्प्रति स्वयम्।
शिशवश्चाभिरूपाश्च जटिला ब्रह्मचारिणः।।
1-1-137a
1-1-137b
पुत्राश्च भ्रातरश्चेमे शिष्याश्च सुहृदश्च वः।
पाण्डवा एत इत्युक्त्वा मुनयोऽन्तर्हितास्ततः।।
1-1-138a
1-1-138b
तांस्तैर्निवेदितान्दृष्ट्वा पाण्डवान्कौरवास्तदा।
शिष्टाश्च वर्णाः पौरा ये ते हर्षाच्चुक्रुशुर्भृशम्।।
1-1-139a
1-1-139b
आहुः केचिन्न तस्यैते तस्यैत इति चापरे।
यदा चिरमृतः पाण्डुः कथं तस्येतदि चापरे।।
1-1-140a
1-1-140b
स्वागतं सर्वथा दिष्ट्या पाण्डोः पश्याम सन्ततिम्।
उच्यतां स्वागतमिति वाचोऽश्रूयन्त सर्वशः।।
1-1-141a
1-1-141b
तस्मिन्नुपरते शब्दे दिशः सर्वा निनादयन्।
अन्तर्हितानां भूतानां निःस्वनस्तुमुलीऽभवत्।।
1-1-142a
1-1-142b
पुष्पवृष्टिः शुभा गन्धाः शङ्खदुन्दुभिनिःस्वनाः।
आसन्प्रवेशे पार्थानां तदद्भुतमिवाभवत्।।
1-1-143a
1-1-143b
तत्प्रीत्या चैव सर्वेषां पौराणां हर्षसंभवः।
शब्द आसीन्महांस्तत्र दिवस्पृक्कीर्तिवर्धनः।।
1-1-144a
1-1-144b
तेऽधीत्य निखिलान्वेदाञ्शास्त्राणि विविधानि च।
न्यवसन्पाण्डवास्तत्र पूजिता अकुतोभयाः।।
1-1-145a
1-1-145b
युधिष्ठिरस्य शौचेन प्रीताः प्रकृतयोऽभवन्।
धृत्या च भीमसेनस्य विक्रमेणार्जुनस्य च।।
1-1-146a
1-1-146b
गुरुशुश्रूषया कुन्त्या यमयोर्विनयेन च।
तुतोष लोकः सकलस्तेषां शौर्यगुणेन च।।
1-1-147a
1-1-147b
समवाये ततो राज्ञां कन्यां भर्तृस्वयंवराम्।
प्राप्तवानर्जुनः कृष्णां कृत्वा कर्म सुदुष्करम्।।
1-1-148a
1-1-148b
ततः प्रभृति लोकेऽस्मिन्पूज्यः सर्वधनुष्मताम्।
आदित्य इव दुष्प्रेक्ष्यः समरेष्वपि चाभवत्।।
1-1-149a
1-1-149b
स सर्वान्पार्थिवाञ्जित्वा सर्वांश्च महतो गणान्।
आजहारार्जुनो राज्ञो राजसूयं महाक्रतुम्।।
1-1-150a
1-1-150b
युधिष्ठिरेण संप्राप्तो राजसूयो महाक्रतुः।।
1-1-151a
1-1-151b
सुनयाद्वासुदेवस्य भीमार्जुनबलेन च।
घातयित्वा जरासन्धं चैद्यं च बलगर्वितम्।।
1-1-152a
1-1-152b
दुर्योधनं समागच्छन्नर्हणानि ततस्ततः।
मणिकाञ्चनरत्नानि गोहस्त्यश्वधनानि च।।
1-1-153a
1-1-153b
विचित्राणि च वासांसि प्रावारावरणानि च।
कम्बलाजिनरत्नानि राङ्कवास्तरणानि च।।
1-1-154a
1-1-154b
समृद्धां तां तथा दृष्ट्वा पाण्डवानां तदा श्रियम्।
ईर्ष्यासमुत्थः सुमहांस्तस्य मन्युरजायत।।
1-1-155a
1-1-155b
विमानप्रतिमां तत्र मयेन सुकृतां सभाम्।
पाण्डवानामुपहृतां स दृष्ट्वा पर्यतप्यत।।
1-1-156a
1-1-156b
तत्रावहसितश्चासीत्प्रस्कन्दन्निव संभ्रमात्।
प्रत्यक्षं वासुदेवस्य भीमेनानभिजातवत्।।
1-1-157a
1-1-157b
स भोगान्विविधान्भुञ्जन्रत्नानि विविधानि च।
कथितो धृतराष्ट्रस्य विवर्णो हरिणः कृशः।।
1-1-158a
1-1-158b
अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः।
तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान्।।
1-1-159a
1-1-159b
नातिप्रीतमनाश्चासीद्विवादांश्चान्वमोदत।
द्यूतादीननयान्घोरान्विविधांश्चाप्युपैक्षत।।
1-1-160a
1-1-160b
निरस्य विदुरं भीष्मं द्रोणं शारद्वतं कृपम्।
विग्रहे तुमुले तस्मिन्दहन्क्षत्रं परस्परम्।।
1-1-161a
1-1-161b
जयत्सु पाण्डुपुत्रेषु श्रुत्वा सुमहदप्रियम्।
दुर्योधनमतं ज्ञात्वा कर्णस्य शकुनेस्तथा।।
1-1-162a
1-1-162b
धृतराष्ट्रश्चिरं ध्यात्वा संजयं वाक्यमब्रवीत्।
शृणु संजय सर्वं मे नचासूयितुमर्हसि।।
1-1-163a
1-1-163b
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः।
न विग्रहे मम मतिर्न च प्रीये कुलक्षये।।
1-1-164a
1-1-164b
न मे विशेषः पुत्रेषु स्वेषु पाम्डुसुतेषु वा।
वृद्धं मामभ्यसूयन्ति पुत्रा मन्युपरायणाः।।
1-1-165a
1-1-165b
अहं त्वचक्षुः कार्पण्यात्पुत्रप्रीत्या सहामि तत्।
मुह्यन्तं चानुमुह्यामि दुर्योधनमचेतनम्।।
1-1-166a
1-1-166b
राजसूये श्रियं दृष्ट्वा पाण्डवस्य महौजसः।
तच्चावहसनं प्राप्य सभारोहणदर्शने।।
1-1-167a
1-1-167b
अमर्षितः स्वयं जेतुमशक्तः पाण्डवान्रणे।
निरुत्साहश्च संप्राप्तुं सुश्रियं क्षत्रियोऽपि सन्।।
1-1-168a
1-1-168b
गान्धारराजसहितश्छद्मद्यूतममन्त्रयत्।
तत्र यद्यद्यथा ज्ञातं मयां संजय तच्छृणु।।
1-1-169a
1-1-169b
श्रुत्वा तु मम वाक्यानि बुद्धियुक्तानि तत्त्वतः।
ततो ज्ञास्यसि मां सौते प्रज्ञाटचक्षुषमित्युत।।
1-1-170a
1-1-170b
यदाऽश्रौषं धनुरायम्य चित्रं
विद्धं लक्ष्यं पातितं वै पृथिव्याम्।
कृष्णां हृतां प्रेक्षतां सर्वराज्ञां
तदा नाशंसे विजयाय संजय।।
1-1-171a
1-1-171b
1-1-171c
1-1-171d
यदाऽश्रौषं द्वारकायां सुभद्रां
प्रसह्योढां माधवीमर्जुनेन।
इन्द्रप्रस्थं वृष्णिवीरौ च यातौ
तदा नाशंसे विजयाय संजय।।
1-1-172a
1-1-172b
1-1-172c
1-1-172d
यदाऽश्रौषं देवराजं प्रवृष्टं
शरैर्दिव्यैर्वारितं चार्जुनेन।
अग्निं तथा तर्पितं खाण्डवे च
तदा नाशंसे विजयाय संजय।।
1-1-173a
1-1-173b
1-1-173c
1-1-173d
यदाऽश्रौषं जातुषाद्वेश्मनस्ता-
न्मुक्तान्पार्थान्पञ्च कुन्त्या समेतान्।
युक्तं चैषां विदुरं स्वार्थसिद्ध्यै
तदा नाशंसे विजयाय संजय।।
1-1-174a
1-1-174b
1-1-174c
1-1-174d
यदाऽश्रौषं द्रौपदीं रङ्गमध्ये
लक्ष्यं भित्त्वा निर्जितामर्जुनेन।
शूरान्पञ्चालान्पाण्डवेयांश्च युक्तां-
स्तदा नाशंसे विजयाय संजय।।
1-1-175a
1-1-175b
1-1-175c
1-1-175d
यदाऽश्रौषं मागधानां वरिष्ठं
जरासन्धं क्ष्वमध्ये ज्वलन्तम्।
दोर्भ्यां हतं भीमसेनेन गत्वा
तदा नाशंसे विजयाय संजय।।
1-1-176a
1-1-176b
1-1-176c
1-1-176d
यदाऽश्रौषं दिग्जये पाण्डुपुत्रै-
र्वशीकृतान्भूमिपालान्प्रसह्य।
महाक्रतुं राजसूयं कृतं च
तदा नाशंसे विजयाय संजय।।
1-1-177a
1-1-177b
1-1-177c
1-1-177d
यदाऽश्रौषं द्रौपदीमश्रुकण्ठीं
सभां नीतां दुःखितामेकवस्त्राम्।
रजस्वलां नाथवतीमनाथव-
त्तदा नाशंसे विजयाय संजय।।
1-1-178a
1-1-178b
1-1-178c
1-1-178d
यदाऽश्रौषं वाससां तत्र राशिं
समाक्षिपत्कितवो मन्दबुद्धिः।
दुःशासनो गतवान्नैवं चान्तं
तदा नाशंसे विजयाय संजय।।
1-1-179a
1-1-179b
1-1-179c
1-1-179d
यदाऽश्रौषं हृतराज्यं युधिष्ठिरं
पराजितं सौबलेनाक्षवत्याम्।
अन्वागतं भ्रातृभिरप्रमेयै-
स्तदा नाशंसे विजयाय संजय।।
1-1-180a
1-1-180b
1-1-180c
1-1-180d
यदाश्रौषं विविधास्तत्र चेष्टा
धर्मात्मनां प्रस्थितानां वनाय।
ज्येष्ठप्रीत्या क्लिश्यतां पाण्डवानां
तदा नाशंसे विजयाय संजय।।
1-1-181a
1-1-181b
1-1-181c
1-1-181d
यदाऽ?श्रौषं स्नातकानां सहस्रै-
रन्वागतं धर्मराजं वनस्थम्।
भिक्षाभुजां ब्राह्मणानां महात्मनां
तदा नाशंसे विजयाय संजय।।
1-1-182a
1-1-182b
1-1-183c
1-1-183d
`यदाऽश्रौषं वनवासेन पार्था-
न्समागतान्महर्षिभिः पुराणैः।
उपास्यमानान्सगणैर्जातसख्यां-
स्तदा नाशंसे विजयाय संजर्य।।'
1-1-184a
1-1-184b
1-1-184c
1-1-184d
यदाश्रौषं त्रिदिवस्थं धनंजयं
शक्रात्साक्षाद्दिव्यमस्त्रं यथावत्।
अधीयानं शंसितं सत्यसन्धं
तदा नाशंसे विजयाय संजय।।
1-1-185a
1-1-185b
1-1-185c
1-1-185d
यदाऽश्रोषं कालकेयास्ततस्ते
पौलोमानो वरदानाच्च दृप्ताः।
देवैरजेया निर्जिताश्चार्जुनेन
तदा नाशंसे विजयाय संजय।।
1-1-186a
1-1-186b
1-1-186c
1-1-186d
यदाऽश्रौषमसुराणां वधार्थे
किरीटिनं यान्तममित्रकर्शनम्।
कृतार्थं चाप्यागतं शक्रलोका-
त्तदा नाशंसे विजयाय संजय।।
1-1-187a
1-1-187b
1-1-187c
1-1-187d
`यदाऽश्रौषं तीर्थयात्राप्रवृत्तं
पाण्डोः सुतं सहितं लोमशेन।
बृहदश्वादक्षहृदयं च प्राप्तं
तदा नाशंसे विजयाय संजय।।'
1-1-188a
1-1-188b
1-1-188c
1-1-188d
यदाऽश्रौषं वैश्रवणेन सार्धं
समागतं भीमन्यांश्च पार्थान्।
तस्मिन्देशे मानुषाणामगम्ये
तदा नाशंसि विजयाय संजया।।
1-1-189a
1-1-189b
1-1-189c
1-1-189d
यदाऽश्रौषं घोषयात्रागतानां
बन्धं गन्धर्वैर्मोक्षणं चार्जुनेन।
स्वेषां सुतानां कर्णबुद्धौ रतानां
तदा नाशंसे विजयाय संजय।।
1-1-190a
1-1-190b
1-1-190c
1-1-190d
यदाऽश्रौषं यक्षरूपेण धर्मं
समागतं धर्मराजेन सूत।
प्रश्नान्कांश्चिद्विब्रुवाणं च सम्यक्
तदा नाशंसे विजयाय संजय।।
1-1-191a
1-1-191b
1-1-191c
1-1-191d
यदाऽश्रौषं न विदुर्मामकास्तान्
प्रच्छन्नरूपान्वसतः पाण्डवेयान्।
विराटराष्ट्रे सह कृष्णया च
तदा नाशंसे विजयाय संजय।।
1-1-192a
1-1-192b
1-1-192c
1-1-192d
`यदाऽश्रौषं कीचकानां वरिष्ठं
निषूदितं भ्रातृशतेन सार्धम्।
द्रौपद्यर्थे भीमसेनेन सङ्ख्ये
तदा नाशंसे विजयाय संजय।।'
1-1-193a
1-1-193b
1-1-193c
1-1-193d
यदाऽश्रौषं मामकानां वरिष्ठा-
न्धनंजयेनैकरथेन भग्नान्।
विराटराष्ट्रे वसता महात्मना
तदा नाशंसे विजयाय संजय।।
1-1-194a
1-1-194b
1-1-194c
1-1-194d
यदाऽश्रौषं सत्कृतं मत्स्यराज्ञा
सुतां दत्तामुत्तरामर्जुनाय।
तां चार्जुनः प्रत्यगृह्णात्सुतार्थे
तदा नाशंसे विजयाय संजय।।
1-1-195a
1-1-195b
1-1-195c
1-1-195d
यदाऽश्रौषं निर्जितस्याधनस्य
प्रव्राजितस्य स्वजनात्प्रच्युतस्य।
अक्षौहिणीः सप्त युधिष्ठिरस्य
तदा नाशंसे विजयाय संजय।। 196 ।।
1-1-196a
1-1-196b
1-1-196c
1-1-196d
यदाऽश्रौषं माधवं वासुदेवं
सर्वात्मना पाण्डवार्थे निविष्टम्।
यस्येमां गां विक्रममेकमाहु-
स्तदा नाशंसे विजयाय संजय।।
1-1-197a
1-1-197b
1-1-197c
1-1-197d
यदाऽश्रौषं नरनारायणौ तौ
कृष्णार्जुनौ वदतो नारदस्य।
अहं द्रष्टा ब्रह्मलोके च सम्यक्
तदा नाशंसे विजयाय संजय।।
1-1-198a
1-1-198b
1-1-198c
1-1-198d
यदाऽश्रौषं लोकहिताय कृष्णं
शमार्थिनमुपयातं कुरूणाम्।
शमं कुर्वाणमकृतार्थं च यातं
तदा नाशंसे विजयाय संजय।। 199 ।।
1-1-199a
1-1-199b
1-1-199c
1-1-199d
बुद्धिं कृतां निग्रहे केशवस्य।
तं चात्मानं बहुधा दर्शयानं
तदा नाशंसे विजयाय संजय।।
1-1-200a
1-1-200b
1-1-200c
1-1-200d
यदाऽश्रौषं वासुदेवे प्रयाते
रथस्यैकामग्रतस्तिष्ठमानाम्।
आर्तां पृथां सान्त्वितां केशवेन
तदा नाशंसे विजयाय संजय।।
1-1-201a
1-1-201b
1-1-201c
1-1-201d
यदाऽश्रौषं मन्त्रिणं वासुदेवं
तथा भीष्मं शान्तनवं च तेषाम्।
भारद्वाजं चाशिषोऽनुब्रुवाणं
तदा नाशंसे विजयाय संजय।।
1-1-202a
1-1-202b
1-1-202c
1-1-202d
यदा कर्णो भीष्ममुवाच वाक्यं
नाहं योत्स्ये युध्यमाने त्वयीति।
हित्वा सेनामपचक्राम चापि
तदा नाशंसे विजयाय संजय।।
1-1-203a
1-1-203b
1-1-203c
1-1-203d
यदाऽश्रौषं वासुदेवार्जुनौ तौ
तथा धनुर्गाण्डिवमप्रमेयम्।
त्रीण्युग्रवीर्याणि समागतानि
तदा नाशंसे विजयाय संजय।।
1-1-204a
1-1-204b
1-1-204c
1-1-204d
यदाऽश्रौषं कश्ललेनाभिपन्ने
रथोपस्थे सीदमानेऽर्जुने वै।
कृष्णं लोकान्दर्शयानं शरीरे
तदा नाशंसे विजयाय संजय।।
1-1-205a
1-1-205b
1-1-205c
1-1-205d
यदाऽश्रौषं भीष्ममित्रकर्शनं
निघ्नन्तमाजावयुतं रथानाम्।
नैषां कश्चिद्वध्यते ख्यातरूप-
स्तदा नाशंसे विजयाय संजय।।
1-1-206a
1-1-206b
1-1-206c
1-1-206d
यदाऽश्रौषं चापगेयेन सङ्ख्ये
स्वयं मृत्युं विहितं धार्मिकेण।
तच्चाकार्षुः पाण्डवेयाः प्रहृष्टा-
स्तदा नाशंसे विजयाय संजय।।
1-1-207a
1-1-207b
1-1-207c
1-1-207d
यदाऽश्रौषं भीष्ममत्यन्तशूरं
हतं पार्थेनाहवेष्वप्रधृष्यम्।
शिखण्डिनं पुरतः स्थापयित्वा
तदा नाशंसे विजयाय संजय।।
1-1-208a
1-1-208b
1-1-208c
1-1-208d
यदाऽश्रौषं शरतल्पे शयानं
वृद्धं वीरं सादितं चित्रपुङ्खैः।
भीष्मं कृत्वा सोमकानल्पशेषां-
स्तदा नाशंसे विजयाय संजय।।
1-1-209a
1-1-209b
1-1-209c
1-1-209d
यदाऽश्रौषं शान्तनवे शयाने
पानीयार्थे चोदितेनार्जुनेन।
भूमिं भित्त्वा तर्पितं तत्र भीष्मं
तदा नाशंसे विजयाय संजय।।
1-1-210a
1-1-210b
1-1-210c
1-1-210d
यदाश्रौषं शुक्रसूर्यौ च युक्तौ
कौन्तेयानामनुलोमौ जयाय।
नित्यं चास्माञ्श्वापदा भीषयन्ति
तदा नाशंसे विजयाय संजय।।
1-1-211a
1-1-211b
1-1-211c
1-1-211d
यदा द्रोणो विविधानस्त्रमार्गा-
न्निदर्शयन्समरे चित्रयोधी।
न पाण्डवाञ्श्रेष्ठतरान्निहन्ति
तदा नाशंसे विजयायं संजय।।
1-1-212a
1-1-212b
1-1-212c
1-1-212d
यदाऽश्रौषं चास्मदीयान्महारथा-
न्व्यवस्थितानर्जुनस्यान्तकाय।
संशप्तकान्निहतानर्जुनेन
तदा नाशंसे विजयाय संजय।।
1-1-213a
1-1-213b
1-1-213c
1-1-213d
यदाऽश्रौषं व्यूहमभेद्यमन्यै-
र्भारद्वाजेनात्तशस्त्रेण गुप्तम्।
भित्त्वा सौभद्रं वीरमेकं प्रविष्टं
तदा नाशंसे विजयाय संजय।।
1-1-214a
1-1-214b
1-1-214c
1-1-214d
यदाऽभिमन्युं परिवार्य बालं
सर्वे हत्त्वा हृष्टरूपा बभूवुः।
महारथाः पार्थमशक्नुवन्त-
स्तदा नाशंसे विजयाय संजय।।
1-1-215a
1-1-215b
1-1-215c
1-1-215d
यदाऽश्रौषमभिमन्युं निहत्य
हर्षान्मूढान्क्रोशतो धार्तराष्ट्रान्।
क्रोधादुक्तं सैन्धवे चार्जुनेन
तदा नाशंसे विजयाय संजय।।
1-1-216a
1-1-216b
1-1-216c
1-1-216d
यदाऽश्रौषं सैन्धवार्थे प्रतिज्ञां
प्रतिज्ञातां तद्वधायार्जुनेन।
सत्यां तीर्णां शत्रुमध्ये च तेन
तदा नाशंसे विजयाय संजय।।
1-1-217a
1-1-217b
1-1-217c
1-1-217d
यदाऽश्रौषं श्रान्तहये धनंजये
मुक्त्वा हयान्पाययित्वोपवृत्तान्।
पुनर्युक्त्वा वासुदेवं प्रयातं
तदा नाशंसे विजयाय संजय।।
1-1-218a
1-1-218b
1-1-218c
1-1-218d
यदाऽश्रौषं वाहनेष्वक्षमेषु
रथोपस्थे तिष्ठता पाण्डवेन।
सर्वान्योधान्वारितानर्जुनेन
तदा नाशंसे विजयाय संजय।।
1-1-219a
1-1-219b
1-1-219c
1-1-219d
यदाऽश्रौषं नागबलैः सुदुःसहं
द्रोणानीकं युयुधानं प्रमथ्य।
यातं वार्ष्णेयं यत्र तौ कृष्णपार्थौ
तदा नाशंसे विजयाय संजय।।
1-1-220a
1-1-220b
1-1-220c
1-1-220d
यदाऽश्रौषं कर्णमासाद्य मुक्तं
वधाद्भीमं कुत्सयित्वा वचोभिः।
धनुष्कोट्याऽऽतुद्य कर्णेन वीरं
तदा नाशंसे विजयाय संजय।।
1-1-221a
1-1-221b
1-1-221c
1-1-221d
यदा द्रोणः कृतवर्मा कृपश्च
कर्णो द्रौणिर्मद्रराजश्च शूरः।
अमर्षयन्सैन्धवं वध्यमानं
तदा नाशंसे विजयाय संजय।।
1-1-222a
1-1-222b
1-1-222c
1-1-222d
यदाऽश्रौषं देवराजेन दत्तां
दिव्यां शक्तिं व्यंसितां माधवेन।
घटोत्कचे राक्षसे घोररूपे
तदा नाशंसे विजयाय संजय।।
1-1-223a
1-1-223b
1-1-223c
1-1-223d
यदाऽश्रौषं कर्णघटोत्कचाभ्यां
युद्धे मुक्तां सूतपुत्रेण शक्तिम्।
यया वध्यः समरे सव्यसाची
तदा नाशंसे विजयाय संजय।।
1-1-224a
1-1-224b
1-1-224c
1-1-224d
यदाऽश्रौषं द्रोणमाचार्यमेकं
धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम्।
रथोपस्थे प्रायगतं विशस्तं
तदा नाशंसे विजयाय संजय।।
1-1-225a
1-1-225b
1-1-225c
1-1-225d
यदाऽश्रौषं द्रौणिना द्वैरथस्थं
माद्रीसुतं नकुलं लोकमध्ये।
समं युद्धे मण्डलेभ्यश्चरन्तं
तदा नाशंसे विजयाय संजय।।
1-1-226a
1-1-226b
1-1-226c
1-1-226d
यदा द्रोणे निहते द्रोणपुत्रो
नारायणं दिव्यमस्त्रं विकुर्वन्।
नैषामन्तं गतवान्पाण्डवानां
तदा नाशंसे विजयाय संजय।।
1-1-227a
1-1-227b
1-1-227c
1-1-227d
यदाऽश्रौषं भीमसेनेन पीतं
रक्तं भ्रातुर्युधि दुःशासनस्य।
निवारितं नान्यतमेन भीमं
तदा नाशंसे विजयाय संजय।।
1-1-228a
1-1-228b
1-1-228c
1-1-228d
यदाऽश्रौषं कर्णमत्यन्तशूरं
हतं पार्थेनाहवेष्वप्रधृष्यम्।
तस्मिन्भ्रातृणां विग्रहे देवगुह्ये
तदा नाशंसे विजयाय संजय।।
1-1-229a
1-1-229b
1-1-229c
1-1-229d
यदाऽश्रौषं द्रोणपुत्रं च शूरं
दुःशासनं कृतवर्माणमुग्रम्।
युधिष्टिरं धर्मराजं जयन्तं
तदा नाशंसे विजयाय संजय।।
1-1-230a
1-1-230b
1-1-230c
1-1-230d
यदाऽश्रौषं निहतं मद्रराजं
रणे शूरं धर्मराजेन सूत।
सदा सङ्ग्रामे स्प्रधते यस्तु कृष्णं
तदा नाशंसे विजयाय संजय।।
1-1-231a
1-1-231b
1-1-231c
1-1-231d
यदाऽश्रौषं कलहद्यूतमूलं
मायाबलं सौबलं पाण्डवेन।
हतं सङ्ग्रामे सहदेवेन पापं
तदा नाशंसे विजयाय संजय।।
1-1-232a
1-1-232b
1-1-232c
1-1-232d
यदाऽश्रौषं श्रान्तमेकं शयानं
ह्रदं गत्वा स्तम्भयित्वा तदम्भः।
दुर्योधनं विरथं भग्नशक्तिं
तदा नाशंसे विजयाय संजय।।
1-1-233a
1-1-233b
1-1-233c
1-1-233d
यदाऽश्रौषं पाण्डवांस्तिष्ठमानान्
गत्वा ह्रदे वासुदेवेन सार्धम्।
अमर्षणं धर्षयतः सुतं मे
तदा नाशंसे विजयाय संजय।।
1-1-234a
1-1-234b
1-1-234c
1-1-234d
यदाऽश्रौषं विविधांश्चित्रमार्गान्
गदायुद्धे मण्डलशश्चरन्तम्।
मिथ्या हतं वासुदेवस्य बुद्ध्या
तदा नाशंसे विजयाय संजय।।
1-1-235a
1-1-235b
1-1-235c
1-1-235d
यदाऽश्रौषं द्रोणपुत्रादिभिस्तै-
र्हतान्पञ्चालान्द्रौपदेयांश्च सुप्तान्।
कृतं बीभत्समयशस्यं च कर्म
तदा नाशंसे विजयाय संजय।।
1-1-236a
1-1-236b
1-1-236c
1-1-236d
यदाऽश्रौषं भीमसेनानुयाते-
नाश्वत्थाम्ना परमास्त्रं प्रयुक्तम्।
क्रुद्धेनैषीकमवधीद्येन गर्भं
तदा नाशंसे विजयाय संजय।।
1-1-237a
1-1-237b
1-1-237c
1-1-237d
यदाऽश्रौषं ब्रह्मशिरोऽर्जुनेन
स्वस्तीत्युक्त्वाऽस्त्रमस्त्रेण शान्तम्।
अश्वत्थाम्ना मणिरत्नं च दत्तं
तदा नाशंसे विजयाय संजय।।
1-1-238a
1-1-238b
1-1-238c
1-1-238d
यदाऽश्रौषं द्रोणपुत्रेण गर्भे
वैराट्या वै पात्यमाने महास्त्रैः।
संजीवयामीति हरेः प्रतिज्ञां
तदा नाशंसे विजयाय संजय।।
1-1-239a
1-1-239b
1-1-239c
1-1-239d
द्वैपायनः केशवो द्रोणपुत्रं
परस्पेरणाभिशापैः शशाप।
बुद्ध्वा चाहं बुद्धिहीनोऽद्य सूत
संतप्ये वै पुत्रपौत्रैश्च हीनः।।
1-1-240a
1-1-240b
1-1-240c
1-1-240d
शोच्या गान्धारी पुत्रपौत्रैर्विहीना
तथा वध्वा पितृभिर्भ्रातृभिश्च।
कृतं कार्यं दुष्करं पाण्डवेयैः
प्राप्तं राज्यमसपत्नं पुनस्तैः।।
1-1-241a
1-1-241b
1-1-241c
1-1-241d
कष्टं युद्धे दश शेषाः श्रुता मे
त्रयोऽस्माकं पाण्डवानां च सप्त।
द्व्यूना विंशतिराहताऽक्षौहिणीनां
तस्मिन्सङ्ग्रामे भैरवे क्षत्रियाणाम्।।
1-1-242a
1-1-242b
1-1-242c
1-1-242d
तमस्त्वतीव विस्तीर्णं मोह आविशतीव माम्।
संज्ञां नोपलभे सूत मनो विह्वलतीव मे।।
1-1-243a
1-1-243b
सौतिरुवाच।
1-1-244x
इत्युक्त्वा धृतराष्ट्रोऽथ विलप्य बहु दुःखितः।
मूर्च्छितः पुनराश्वस्तः संजयं वाक्यमब्रवीत्।।
1-1-244a
1-1-244b
धृतराष्ट्र उवाच।
1-1-245x
संजयैवं गते प्राणांस्त्यक्तुमिच्छामि मा चिरम्।
स्तोकं ह्यपि न पश्यामि फलं जीवितधारणे।।
1-1-245a
1-1-245b
सौतिरुवाच।
1-1-246x
तं तथा वादिनं दीनं विलपन्तं महीपतिम्।
निःश्वसन्तं यथा नागं मुह्यमानं पुनः पुनः।।
1-1-246a
1-1-246b
गावल्गणिरिदं धीमान्महार्थं वाक्यमब्रवीत्।
1-1-247a
संजय उवाच।
1-1-247x
श्रुतवानसि वै राजन्महोत्साहान्महाबलान्।।
1-1-247b
द्वैपायनस्य वदतो नारदस्य च धीमतः।
महत्सु राजवंशेषु गुणैः समुदितेषु च।।
1-1-248a
1-1-248b
जातान्दिव्यास्त्रविदुषः शक्रप्रतिमतेजसः।
धर्मेण पृथिवीं जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः।।
1-1-249a
1-1-249b
अस्मिँल्लोके यशः प्राप्य ततः कालवशं गतान्।
शैब्यं महारथं वीरं सृंजयं जयतां वरम्।। 250 ||
1-1-250a
1-1-250b
बाह्लीकं दमनं चैद्यं शर्यातिमजितं नलम्।।
1-1-251a
1-1-251b
विश्वामित्रममित्रघ्नमम्बरीषं महाबलम्।
मरुत्तं मनुमिक्ष्वाकुं गयं भरतमेव च।।
1-1-252a
1-1-252b
रामं दाशरथिं चैव शशबिन्दुं भगीरथम्।
कृतवीर्यं महाभागं तथैव जनमेजयम्।।
1-1-253a
1-1-253b
ययातिं शुभकर्माणं देवैर्यो याजितः स्वयम्।
`चैत्ययूपाङ्किता भूमिर्यस्येयं सवनाकरा।।
1-1-254a
1-1-254b
इति राज्ञां चतुर्विंशन्नारदेन सुरर्षिणा।
पुत्रशोकाभितप्ताय पुरा श्वैत्याय कीर्तितम्।।
1-1-255a
1-1-255b
तेभ्यश्चान्ये गताः पूर्वं राजानो बलवत्तराः।
महारथा महात्मानः सर्वैः समुदिता गुणैः।।
1-1-256a
1-1-256b
पूरुः कुरुर्यदुः शूरो विष्वगश्वो महाद्युतिः।
अणुहो युवनाश्वश्च ककुत्स्थो विक्रमी रघुः।।
1-1-257a
1-1-257b
विजयो वीतिहोत्रोऽह्गो भवः श्वेतो बृहद्गुरुः।
उशीनरः शतरथः कङ्को दुलिदुहो द्रुमः।।
1-1-258a
1-1-258b
दम्भोद्भवः परो वेनः सगरः संकृतिर्निमिः।
अजेयः परशुः पुण्ड्रः शंभुर्देवावृधोऽनघः।।
1-1-259a
1-1-259b
देवाह्वयः सुप्रतिमः सुप्रतीको बृहद्रथः।
महोत्साहो विनीतात्मा सुक्रतुर्नैषधो नलः।।
1-1-260a
1-1-260b
सत्यव्रतः शान्तभयः सुमित्रः सुबलः प्रभुः।
जानुजङ्घोऽनरण्योऽर्कः प्रियभृत्यः शुचिव्रतः।।
1-1-261a
1-1-261b
बलबन्धुर्निरामर्दः केतुशृङ्गो बृहद्बलः।
धृष्टकेतुर्बृहत्केतुर्दीप्तकेतुर्निरामयः।।
1-1-262a
1-1-262b
अविक्षिच्चपलो धूर्तः कृतबन्धुर्दृढेषुधिः।
महापुराणसंभाव्यः प्रत्यङ्गः परहा श्रुतिः।।
1-1-263a
1-1-263b
एते चान्ये च राजानः शतशोऽथ सहस्रशः।
श्रूयन्ते शतशश्चान्ये सङ्ख्याताश्चैव पद्मशः।।
1-1-264a
1-1-264b
हित्वा सुविपुलान्भोगान्बुद्धिमन्तो महाबलाः।
राजानो निधनं प्राप्तास्तव पुत्रैर्महत्तरः।।
1-1-265a
1-1-265b
येषां दिव्यानि कर्माणि विक्रमस्त्याग एव च।
माहात्म्यमपि चास्तिक्यं सत्यं शौचं दयाऽर्जवम्।।
1-1-266a
1-1-266b
विद्वद्भिः कथ्यते लोके पुराणैः कविसत्तमैः।
सर्वर्द्धिगुणसंपन्नास्ते चापि निधनं गताः।।
1-1-267a
1-1-267b
तव पुत्रा दुरात्मानः प्रतप्ताश्चैव मन्युना।
लुब्धा दुर्वृत्तभूयिष्ठा न ताञ्छोचितुमर्हसि।।
1-1-268a
1-1-268b
श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः।
येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत।।
1-1-269a
1-1-269b
निग्रहानुग्रहौ चापि विदितौ ते नराधिप।
नात्यन्तमेवानुवृत्तिः कार्या ते पुत्ररक्षणे।।
1-1-270a
1-1-270b
भवितव्यं तथा तच्च नानुशोचितुमर्हसि।
दैवं पुरुषकारेण को निवर्तितुमर्हति।।
1-1-271a
1-1-271b
विधातृविहितं मार्गं न कश्चिदतिवर्तते।
कालमूलमिदं सर्वं भावाभावौ सुखासुखे।।
1-1-272a
1-1-272b
कालः सृजति भूतानि कालः संहरते प्रजाः।
संहरन्तं प्रजाः कालं कालः शमयते पुनः।।
1-1-273a
1-1-273b
कालो विकुरुते भावान्सर्वांल्लोके शुभाशुभान्।
कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः।।
1-1-274a
1-1-274b
कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः।
कालः सर्वेषु भूतेषु चरत्यविधतः समः।।
1-1-275a
1-1-275b
अतीतानागता भावा ये च वर्तन्ति सांप्रतम्।
तान्कालनिर्मितान्बुद्ध्वा न संज्ञां हातुमर्हसि।।
1-1-276a
1-1-276b
सौतिरुवाच।
1-1-277x
इत्येवं पुत्रशोकार्तं धृतराष्ट्रं जनेश्वरम्।
आश्वास्य स्वस्थमकरोत्सूतो गावल्गणिस्तदा।।
1-1-277a
1-1-277b
धृतराष्ट्रोऽपि तच्छ्रुत्वा धृतिमेव समाश्रयत्।
दिष्ट्येदमागतमिति मत्त्वा स प्राज्ञसत्तमः।।
1-1-278a
1-1-278b
लोकानां च हितार्थाय कारुण्यान्मुनिसत्तमः।
अत्रोपनिषदं पुण्यां कृष्णद्वैपायनोऽब्रवीत्।।
1-1-279a
1-1-279b
विद्वद्भिः कथ्यते लोके पुराणे कविसत्तमैः।
भारताध्ययनं पुण्यमपि पादमधीयतः।
श्रद्दधानस्य पूयन्ते सर्वपापान्यशेषतः।।
1-1-280a
1-1-280b
1-1-280c
देवा देवर्षयो ह्यत्र तथा ब्रह्मर्षयोऽमलाः।
कीर्त्यन्ते शुमकर्माणस्तथा यक्षा महोरगाः।।
1-1-281a
1-1-281b
भगवान्वासुदेवश्च कीर्त्यतेऽत्र सनातनः।
स हि सत्यमृतं चैव पवित्रं पुण्यमेव च।।
1-1-282a
1-1-282b
शाश्वतं ब्रह्म परमं ध्रुवं ज्योतिः सनातनम्।
यस्य दिव्यानि कर्माणि कथन्ति मनीषिणः।।
1-1-283a
1-1-283b
असत्सत्सदसच्चैव यस्माद्विश्वं प्रवर्तते।
सन्ततिश्च प्रवृत्तिश्च जन्ममृत्युपुनर्भवाः।।
1-1-284a
1-1-284b
अध्यात्मं श्रूयतें यत्र पञ्चभूतगुणात्मकम्।
अव्यक्तादि परं यच्च स एव परिगीयते।।
1-1-285a
1-1-285b
यं ध्यायन्ति सदा मुक्ता ध्यानयोगबलान्विताः।
प्रतिबिम्बमिवादर्शे पश्यन्त्यात्मन्यवस्थितम्।।
1-1-286a
1-1-286b
श्रद्दधानः सदा युक्तः सदा धर्मपरायणः।
आसेवन्निममध्यायं नरः पापात्प्रमुच्यते।।
1-1-287a
1-1-287b
अनुक्रमणिकाध्यायं भारतस्येममादितः।
आस्तिकः सततं शृण्वन्न कृच्छ्रेष्ववसीदति।।
1-1-288a
1-1-288b
उभे सन्ध्ये जपन्किंचित्सद्यो मुच्येत किल्बिषात्।
अनुक्रमण्या यावत्स्यादह्नारात्र्या च संचितम्।।
1-1-289a
1-1-289b
भारतस्य वपुर्ह्येतत्सत्यं चामृतमेव च।
नवनीतं यथा दध्नो द्विपदां ब्राह्मणो यथा।।
1-1-290a
1-1-290b
आरण्यकं च वेदेभ्य ओषधिभ्योऽमृतं यथा।
ह्रदानामुदधिः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम्।।
1-1-291a
1-1-291b
यथैतानीतिहासानां तथा भारतमुच्यते।
यश्चैनं श्रावयेच्छ्राद्धे ब्राह्मणान्पादमन्ततः।।
1-1-292a
1-1-292b
अक्षय्यमन्नपानं वै पितृंस्तस्योपतिष्ठते।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्।।
1-1-293a
1-1-293b
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति।
कार्ष्णं वेदमिमं विद्वाञ्श्रावयित्वार्थमश्नुते।।
1-1-294a
1-1-294b
भ्रूणहत्यादिकं चापि पापं जह्यादसंशयम्।
य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि।।
1-1-295a
1-1-295b
अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः।
यश्चैनं शृणुयान्नित्यमार्षं श्रद्धासमन्वितः।।
1-1-296a
1-1-296b
स दीर्घमायुः कीर्तिं च स्वर्गतिं चाप्नुयान्नरः।
एकतश्चतुरो वेदा भारतं चैतदेकतः।।
पुरा किल सुरैः सर्वैः समेत्य तुलया धृतम्।
चतुर्भ्यः सरहस्येभ्यो वेदेभ्यो ह्यधिकं यदा।।
तदाप्रभृति लोकेऽस्मिन्महाभारतमुच्यते।
महत्त्वे च गुरुत्वे च ध्रियमाणं यतोऽधिकम्।।
महत्त्वाद्भारवत्त्वाच्च महाभारतमुच्यते।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते।।
तपो नकल्कोऽध्ययनं नकल्कः
स्वाभाविको वेदविधिर्नकल्कः।
प्रसह्य वित्ताहरणं नकल्क-
स्तान्येव भावोपहतानि कल्कः।।
इति श्रीमन्माहाभारते आदिपर्वणि
अनुक्रमणिकापर्वणि प्रथमोऽध्यायः।। 1 ।।
।। अनुक्रमणिकापर्व समाप्तम् ।।